________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [65 पक्षीभूय / “व्याश्रये तसुः” (7 / 2 / 8 / 1) इति सूत्रेण 'देवा अर्जुनतोऽभवन्” इतिवत् तसुप्रत्ययः / स्थित इति शेषः / प्रशान्तिकृत-प्रशान्ति करोतीति प्रशान्तिकृत् / सः-भगवान शान्तिनाथः / नय:नीतिभिः, न्यायपुरस्सरमिति यावत / चिरम् -दीर्घकालं यावत् / “चिराय चिररात्राय चिरस्य च चिराचिरम् / चिरेण दीर्घकालेऽर्थे” 6 / 168 / इत्यभिधानचिन्तामणिः / रुचिरम्-सुन्दरम् / रमणीयमिति यावत् / “चारुहारि रुचिरं मनोहरं साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे / " 680 // इत्यभिधानचिन्तामणिः / राज्यम्-कर्मराज्यम् सौराज्यमिति यावत् / दधौ-अधात् // 103 // उपादिशनीतिभरं स्फुटं भटैः, समं चमर्येव तुलाभिलाषिणः / नृपे प्रशान्ते पितरि स्वयं जिन-श्वकार राज्य कतिचित् समाः क्रमात् / / 104 अन्वयः-भटः, समम् , तुलाभिलाषिणः, स्फुटम् , नीतिभरम् , उपादिशन, एव, नृपे, पितरि, प्रशान्ते. चमरी, जिनः, स्वयम् , क्रमात् , कतिचित् , समाः, राज्यम् , चकार // 104 // वृत्तिः-भटेः-वीरैः / “भटः स्यात्पुंसि वीरे च विशेषे पामरस्य च' इति मेदिनी / सममसाकम् / “साकं सत्रा समं सार्द्धममा सह” 6 / 163 / / इत्यभिधानचिन्तामणिः / तुलाभिलाषिणःतुलाम-सादृश्यमभिलषिति तच्छीलमस्त्यस्येति तुलाभिलाषी तस्य तथा / "अजातेः शीले" 5 / 1 / 154 // इत्यनेन ताच्छील्ये णिन् प्रत्ययः / स्फुटम्-व्यक्तं यथास्यात्तथा / नीतिभरम्-नयसमुदयम् / न्यायातिशयमिति यावत् / उपादिशन्-उपआङपूर्वकाद्दिश्धातो शतृप्रत्यये साधु, प्रतिपादयन् / एवअवधारणार्थकमव्ययम् / नृपे-राजनि / पितरि-जनके श्रीविश्वसेने / प्रशान्ते-प्रकर्षण शान्तिमापन्ने / चमरी-चमराः सन्त्यस्येति चमरी, नृप इति यावत् / जिनः-जयति रागद्वेषमोहानिति जिनोऽर्हन् भगवान श्रीमान् शान्तिनाथः / स्वयम्-आत्मना / “स्वयमात्मना" इत्यमरः / क्रमाव-क्रमशः / कतिचित-कियन्तीः। समाः-शरदः, वर्षाणीति यावत् / “स संपर्यनूभ्यो वर्षं हायनोऽब्दं समाः शरत्” 2 / 73 / / इत्यभिधानचिन्तामणिः / राज्यम्-राजकर्म / चकार-कृतवान् // 104 // अथाप्रयत्नोदितचक्ररत्नभृ-न्नृपाधिरोहेन यश्चलनिति / अनोगसे शंसति बालचापलं, परं पराकृत्य दिशां जयी भव // 105 // अन्वयः- अथ, अप्रयत्नोदितचक्ररत्नभृन्नृपाधिरोहः, हयः, चलन् , परम् , बालचापलम् , पराकृत्य, अत्र दिशाम् , जयी, भव, इति, अनागसे, शंसति // 105 // वृत्तिः-अथ-राज्यप्राप्तिसमनन्तरम् / अप्रयत्नोदितचक्ररत्नभृन्नृपाधिरोह:-अधिरुह्यते, आरुह्यते इत्यधिरोहः, अप्रयत्नेन प्रयासाभावेन उदितम् सम्प्राप्तम् अप्रयत्नोदितम् तच्च तच्चक्ररत्नं चक्र