________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [63 मुद्रायाः सङ्कोचस्य सारो गमनं मुद्रासारस्तेन सह वर्तते तस्य तथा, यद्वा समुद्रस्य रत्नाकरस्य सारो धनं तस्य तद्रूपस्येति तदर्थः / तदाननस्य-तस्य श्रीशान्तिनाथस्य आननं वदनं तदाननं तस्य तथा / उपमितौ-सादृश्ये, उपमाने वा / मा-पूर्वकथिता, प्रसिद्धा / दरिद्रता-दारिद्रयम्, अस्तीतिशेषः / आमतः-दोषतः, ( यत् ) उक्तम्-कथितम् / (तत्) अयुक्तम्-अनुचितम् , वक्ष्यमाणप्रकारेण तत्साधनादिति भावः / “पूर्वविपश्चितामता" इति यथामुद्रितपाठे तु 'यदि वा येन पूर्वविपश्चिता तुरातुराशयाऽऽशयाधिया अत्र समुद्रसारस्य तदाननस्य उपमिती सा दरिद्रता मता ( इति ) अयुक्तम् उक्तम्' इत्येवमन्वयम् , पूर्वोदीरितप्रकारेण व्याख्येयश्च // 100 / / दृशः प्रकाशात् सरमस्वभावतः, प्रपन्नसत्सौरभतस्त्रयी सहक / ततो न काचिद्विदुषां प्रमाजुषां, तदाननस्योपमिती दरिद्रता // 101 // अन्वयः-दृशः, प्रकाशात् , सरसस्वभावतः, (च) प्रपन्नसत्सौरभतः, त्रयी, सहक्, तता, प्रमाजुषाम् , विदुषाम् , तदाननस्य, उपमिती, काचित् , दरिद्रता, न, // 11 // वृत्तिः - मुखचन्द्रपद्माना पारस्परिक सादृश्यमेव न तु नतु वैसदृश्यमिति बोधयितुमाह दृश इति / दृशः-मुखे दृष्टे सम्यक्त्वस्य, चन्द्रे दृष्टे नेत्रस्य / प्रकाशात-विकासात् / ( कमले दृष्टे च ) दृशः नेत्रस्य, प्रकाशात् स्वरूपप्रकटनात् ; दृक्प्रकाशस्य त्रितयेऽपि सत्त्वात् / सरसस्वभावतः-रसैः शृङ्गारादिभिर्नवभिः सहितः सरसः स चासौ स्वभावः शीलं सरसस्वभावस्तस्मात् तथा चन्द्रपझे च रसेन जलेन सहितः सरसः सचासौ स्वभावः प्रकृतिः सरसस्वभावस्तस्मात्तथा। “रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः” इति मेदिनी / कमलपक्षे च सरसस्वभावतः सरसस्तडागस्य इतिच्छेदः, स्वभावात्-स्व आत्मीयश्चासौ भावः स्वभावस्तस्मात्तथा, “निजः पुनः / आत्मीयः स्वः स्वभावश्च" 3226 // इत्यभिधानचिन्तामणिः कमलपक्षे सरसः इति पदस्य सविसर्गत्वेऽपि “सविसर्गाविसर्गयोः” इत्यभियुक्तोक्त्या क्षतिकरत्वाभावः, एवञ्च मुखचन्द्रकमलेषु त्रिष्वपि सरसस्वभावस्य धर्मस्य सादृश्यजनकस्य सत्त्वात् / ( च-पुनः:) प्रपन्नसत्सौरभत:-कमलमुखपक्षे प्रपन्नं समधिगतं सत् समीचीनं सौरभं सौगन्ध्यं येन तत् प्रपन्नसत्सौरभम् तस्मात्तथा, चन्द्रपक्षे च अमावास्यायां सूर्य्यस्य कान्तिश्चन्द्रेण प्रपन्ना इति सूरस्य इयं सौरी सौरी चासौ भा प्रभा सौरभा कर्मधारयसमासोत्तरं "पुंवत्कर्मधारये" 3 / 2 / 57 / / इत्यनेन {वद्भावः प्रपन्ना सती सौरभा येन स प्रपन्नसत्सौरभस्तस्तस्मात्तथा भावप्रधानोऽयं निर्देशः / त्रयी मुखचन्द्रकमलैतत्त्रयी / सदृक् समाना दृश्यते इति सदृक् / ततः-तस्मादेतोः / प्रभाजुषाम्-प्रभा प्रतिभा जुषन्ते सेवन्त इति प्रभाजुषस्तेषान्तथा / विदुषाम्-मेघाविनाम् / तदाननम्य-तस्य भगवतः शान्तिनाथस्य आननं बदनन्तदाननम् तस्य तथा / उपमिती-सादृश्ये / काचित्-कापि / दरिद्रता-दारिद्रयम् / न-नहिं / वर्तते इतिशेषः / / 101 //