SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 62 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र दूरान्योत्तरे क्लीवन्तु केवले" इति मेदिनी / भव्यम-भवतीति भव्यम्-भावुकम् “भव्यगेयजन्यरम्य" ५।१।षा इत्यनेन कर्तरि यः प्रत्ययः / “भावुकं भविकं भव्यम्" इत्यमरकोशः / कुतः-कस्मात् कुत्र क पा शेष्यम् / कुतोऽपि कुत्रापि वा नास्तीति भावः // 18 // दिवा विबोधात् , यदि वानिशोदयात्, त्रयेऽप्ययं स्याद् व्यतिरेकताश्रयः। ततोऽन्वयाद्वा व्यतिरेकतः स्वत-स्तदाननस्योपमितौ दरिद्रता // 19 // अन्वयः-दिवा, विबोधात् , यदि वा, अनिशोदयात् . अयम् , त्रये, अपि, व्यतिरकेताश्रयः, स्यात् , ततः, अन्वयात् , बा व्यतिरेकतः, स्वतः, तदाननस्य, उपमितो दरिद्रता // 99 // वृत्तिः-दिवा-दिवसे / विबोधात्-वि-विशिष्टो बोधः प्रकाशः विबोधस्तस्मात्तथा / यदि वाअथवा / अनिशोदयात्-नास्ति निशाऽत्रेत्यनिशं सन्ततम् अनिशमुदयोऽनिशोदयस्तस्मात्तथा "अनारतं त्वविरतं संसक्तं सततानिशे / नित्याऽनवरताजस्रासक्ताश्रान्तानि सन्ततम्" 6 / 107 // इत्यभिवानचिन्तामणिः / अयम्-दिवा विबोधः, अनिशोदयश्च / त्रये-मुखचन्द्रसरोरुहैतन्त्रितये / व्यतिरेकनाश्रय:व्यतिरेकस्य भेदस्य आश्रयः करणम् व्यतिरेकाश्रय / स्यात्-भवेत् / कमलस्य दिवाविबोधेऽपि रात्रौ तदभावः, चन्द्रस्य रात्रौ विवोधेऽपि दिवा कृष्णपझे शुक्रमे चापि रात्रौ अपि सर्वहा प्रकाशाभावेन च कमलापेझया चन्द्रापेझया चापि भगवतः शान्तिनाथस्य वदने व्यतिरेकोऽसंशयं वर्तते एवेतिभावः / तत:-तस्माद्धेतोः / अन्वयात्-तत्सत्त्वे तत्सत्त्वमित्यन्वयात् / वा-अयवा / व्यतिरेकता-तदभावे तदभाव इति व्यतिरेकाव / स्वतः-स्वयमेव सुस्पष्टं यथास्यात्तथा / तदाननस्य-तस्य भगवतः शान्तिनाथस्य आननम् पदनम् सदाननम् तस्य तथा / उपमितौ-सादृश्ये / दरिद्रता-दारिद्रयम् / अस्तीतिशेषः / नाब्जे भगवद्वदनोपमानतामनुभवितुमलं भवत इति भावः // 19 // अयुक्तमुक्तं यदि वा तुरातुरा-शयाऽऽशया पूर्वविपश्चितामतः / समुद्रसारस्य धियाऽत्र येन सा, तदाननस्योपमितौ दरिद्रता // 10 // अन्वयः—यदि वा, येन, पूर्वविपश्चिता तुरातुराशयाऽऽशया, धिया, अत्र, समुद्रसारस्य, तदाननस्य, उपमितो, सा, दरिद्रता, (अस्तीति) आमतः, उक्तम् , (तत्), अयुक्तम् , // 10 // वृत्तिः–यदि वा-पक्षान्तरे / येन-बुद्धिविषयीभूतेन / पूर्व विपश्चिता-प्राचीनमनीषिणा / तुरातुराशयाऽऽशया-तुरेण संभ्रमेण वेगेनेति यावत् आतुरो व्यग्रस्तुरातुरः स चासावाशयः अभिप्रायस्तस्य आशा अभिलाषस्तया तथा / धिया-बुद्धया / अत्र-लोकेऽस्मिन् / समुद्रसारस्य-मुदो * हर्षस्य रस आस्वादो मुद्रसस्तस्य आरः प्राप्तिमुद्रसारस्तेन सह वर्तत इति समुद्रसारं तस्य तथा, यहा
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy