________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः जडादचेतनात् मुखाज्जातम् जडजातम् जडजातं जन्मोत्पत्तिर्यस्य तत् जडजातजन्म तेन तथा / स्मितेन-ईषद्धासेन / एव-अवधारणार्थकमव्ययम् / जिताः-विजिताः पराजिता इति यावत् / अतिशालिना-श्रुत्या आम्नायेन आगमेनेति यावत्, शालते शोभते तच्छीलमस्यस्य इति श्रुतिशालि "अजातेः शीले' 5 / 1 / 154 / / इत्यनेन ताच्छील्ये णिन् प्रत्ययः / 'श्रुतिः श्रौत्रे च तत्कर्मण्याग्नायवार्तयोः स्त्रियाम्' इति मेदिनी / अमुना-अनेन / जिनाननेन-भगवत्तीर्थकृच्छान्तिनाथवदनेन / द्विजराजिद्विजानाम्-ब्राह्मणानां क्षत्रियाणाम् विशाञ्च राट् राजा द्विजराट् तस्मिंस्तथा / मनाक-ईषत् किञ्चिदिति यावत् “अल्पे किश्चिन्मनागीषञ्च किश्चन" 6 / 172 / / इत्यभिधानचिन्तामणिः / साम्यम्-समस्य तुल्यस्य भावः समता तुल्यतेति यावत् सादृश्यमिति परमार्थः / न-नहि / राजते-विराजते / चन्द्रे जिनाननसादृश्यलेशोऽपि नास्तीति भावः // 97 // . मुखे सुधांशी च, वरे सरोरुहे, कलातुला स्याद्विजराजयोगतः / अतः परं भव्यमहो महीयमी, सुवृत्तबोधोदयपल्लवप्रभा // 98 // अन्वयः-मुखे, सुधांशी, च, वरे, सरोरुहे, द्विजराजयोगता, सुवृत्तबोधोदय पल्लवममा महीयसी, कलातुला, स्यात् , अहो अतः, परम् , भव्यम् , ( कुतः ) // 98 // वृत्तिः-मुखे-भगवच्छान्तिनाथवदने / सुधांशौ-सुधयाऽमृतेन संबलितोंऽशुः किरणो यस्य स सुधांशुश्चन्द्रस्तस्मिंस्तथा / च-पुनः / वरे-श्रेष्ठे / “वरो जामातरि वृतौ देवतादेरभीप्सिते। षिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम्” / सरोरुहे-सरसि कासारे रोहति समुत्पद्यते इति सरोरुहम् तस्मिंस्तथा, कमले इत्यर्थः / द्विजराजयोगतः-मुखपक्षे द्विजा दन्ता राजान इव द्विजराजाः, चन्द्रपझे च द्विजानां राजा द्विजराजश्चन्द्रः स्वयमेव, सृतीय-(सरोरुह )-पक्षे च द्विजराजः कलहंसः, तैस्तेन वा यागो सम्बन्धो द्विजराजयोगस्तस्मात्तथा "दन्तविप्राण्डजा द्विजा.” इत्यमरनानार्थः / सुवृत्तयोधोदयपल्लवप्रभा-मुखपक्षे सुष्ठु वृत्तबोधानां चरणज्ञानानामुदयो येभ्यस्ते सुवृत्तबोधोदयास्ते च ते पल्लवाः पदलेशाः सुवृत्तबोधोदयपल्लवास्तेषां प्रभा बुद्धिः सुवृत्तबोधोदयपल्लवप्रभा, “चरित्रं चरिताचारी चारित्रचरणे अपि / वृत्तं शीलञ्च" 3 / 507 / / इत्यभिधानचिन्तामणिः / चन्द्रपक्षे-सुष्ठु वृतः वर्तुलः सुवृत्तः स चासौ बोधः प्रकाशः सुवृत्तबोधस्तेन उदये पल्लववत् प्रभा सुवृत्तबोधोदयपल्लवप्रमा, सरोरुहपक्षेऽपि सुष्ठु वृत्तः वर्तुलः सुवृत्तः सचासौ बोधः प्रकाशः सुवृत्तबोधस्तेन उदये पल्लवानां प्रभा तथेति विज्ञेयम् / महीयसी-अतिशयेन महती महीयसी “गुणाङ्गाद्वष्ठेयसू' 7 / 39 // इत्यनेन ईयसुः प्रत्ययः। कलातुला-कलायास्तुला तुलना कलातुला / स्यात्-भवेत् / अहो-आश्चर्येऽव्ययम् / “अहहेत्यद्भुते खेदे परिक्लेशप्रकम्पयोः" इति मेदिनी / अत:-एतस्मात् प्रदर्शितत्रयात् / परम्-अन्यत् / “परः श्रेष्ठारि