________________ 60 ] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे नायाम् / विधातुम्-निर्मातुम् / नच-नैव / क्षमाः-शक्ताः, प्रभवन्तीति यावत् / तेन-हेतुना / मे-मम / मते इति शेषः / मनःशयः-मदनः / “मदरो जराभीरु "विषमायुधो मकरकेतनहन्छयो” 2 / 121 // इत्यभिधानचिन्तामणिः / असंशयः-नास्ति संशयः तदङ्गुष्ठनिर्माणविषयको यस्मिन् स तथा / ( अतः) चराचरे-स्थावरजङ्गमात्मके जगति / तन्मुखस्य-श्रीमदहद्वदनस्य / प्रतिमा-उपमानम् / नास्ति-न संभवतीति यावत् / अत्र चतुर्थपादवाक्यार्थ प्रति पादत्रयार्थस्य हेतुतयाऽभिधानात् काव्यलिङ्गमलङ्कारः // 15 // सरोरुहं तस्य दृशैव तर्जितं, जले न्यमज्जद् बहुलज्जया जवात् / ततः स्फुरत्पद्मपदं तदञ्चितं, वृतं न जैनाननसंश्रयश्रिया / / 96 // अन्वयः-तस्य, दृशा, एव, तर्जितम् , सरोरुहम्, बहुलज्जया, जवात् , जले, न्यमज्जत् , ततः, स्फुरत्पमपदम् , अञ्चितम्, तत् , जनाननसंश्रयश्रिया, न घृतम् // 96 // . वृत्तिः-तस्य-भगवतः श्रीमच्छान्तिनाथस्य / दृशा-नयनेन / एव-अवधारणार्थकमन्ययम् / वर्जितम्-भत्सितम्, निर्जितमितियावत् / सरोरुहम-सरसि रोहत्युत्पद्यते इति सरोरुहम् कमलम् / बहुलज्जया-बहुश्चासौ लज्जा त्रपा बहुलज्जा तया तथा / जवात्-वेगेन / सहसेति यावत् / जलेसलिले / न्यमज्जत्-निमग्नम् / तत:-तस्मात् जलनिमन्ननाद्धेतोः। अञ्चितम्-प्रशस्तम् / स्फुरत्पापदम्-स्फुरत्-विलसत् पञति पदम् आस्पदम् प्रतिष्ठेतियावद्यस्य तत्तथा / तत्-कमलम् / जैनाननसंश्रयश्रिया-जिनस्य तीर्थकृतो भगवतः शान्तिनाथस्य इदम् जैनम् जैनश्च तदाननम् वदनम् जैनाननम् तत्र संश्रयः संश्रयणम् समाश्रयणमिति यावत् जैनाननसंश्रयस्तस्मात्-तज्जनिता श्रीः शोभा जैनाननसंभयश्रीस्वया तथा / "शोभा सम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते” इति यादवः / न-नहि / वृतम्अन्वितम् // 16 // जडस्वरूपा जडजातजन्मना, जिताः स्मितेनैव विधोरपि श्रियः / जिनाननेन श्रुतिशालिनाऽमुना,मनाग न साम्यं द्विजराजि राजते॥९७॥ अन्वयः-विधोः, अपि जडस्वरूपाः, श्रियः, जडजातजन्मना, स्मितेन, एव, जिताः, श्रुतिशालिना, अमुना, जिनाननेन, द्विजराजि, मनाक्, साम्यम् , न, राजते, // 9 // - वृत्तिः-विधोः-चन्द्रस्य / अपि-सम्भावनायामव्ययम् / “अपि सम्भावनाप्रश्नशङ्कागहो. समुच्चये" इति मेदिनी / जडस्वरूपाः-जडतुल्याः / श्रियः-लक्ष्म्यः शोभा वा / जडज़ातजन्मना