________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे हेतुः समिद्धतारारुचिहेतुस्तेन तथा / चन्द्रेण-चन्द्रमसा / पुनः-किन्तु / सौहृदम्-मित्रता सौहार्द मितियावद / “सख्यं तु सौहृदम् / सौहार्दसाप्तपदीनमैत्र्यजर्याणि सङ्गतम्" 36394 / / इत्यभिधानचिन्तामणिः / नु-वितर्केऽऽययम् / ततः-तस्माद्धेतोः “हेतौ यत्तद्यतस्ततः” 6 / 173 // इत्यभिधानचिन्तामणिः / अर्धवपुः-अधं समार्द्धभागान्वितं वपुः शरीरं यस्य सोऽर्धवपुः / सः-प्रसिद्धः, शान्तिनाथमुखकेलिस्मितविजितः / शशी-शशः कलङ्कतयाऽस्त्यस्येति शशी चन्द्रः / “अतोऽनेकस्वरात्" 72 / 6 // इत्यनेन मत्वर्थे इन् प्रत्ययः / भाले-ललाटे। “भाले गोध्यलिकालीकललाटानि" 3 / 237 / / इत्यभिधानचिन्तामणिः / स्थितः-स्थितवान् / पराजितश्चन्द्रोऽर्धवपुः सन् भालरूपेण परिणतः समुपास्ते श्रीशान्तिनाथम् / 'कृतः स्वभालेन समोऽर्धतः शशी' इति पाठे तु स्पष्ट एवोक्तोऽर्थः / / 12 / / विधौ श्रियाईद्वदनस्य मित्रतां, निजांशदृक्तर्जितपद्मसंपदः / . विचार्य तद्योगबलात्कुशेशयं, तदालिमालाजटिल वने स्थितम् // 13 // अन्वयः–श्रिया, निजांशहक्नर्जितपद्मसंपदः, अर्हद्वदनस्य, विधौ, तद्योगबलात् , मित्रताम्, विचार्य, ( स्थितम् ) कुशेशपम्, अलिमालाजटिलम् , ( सत् ) सदा, वने, स्थितम् // 93 // ___ वृत्तिः श्रिया-शोभया। “शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिवः कथ्यते” इति यादवः / करणे तृतीया / निजांशदृक्तर्जितपद्मसंपद:-निजः स्वकीयोऽशो भागो निजांशः, निजांशी एव दृशौ नयने निजांशदृशौ, ताभ्यां तर्जिता निर्मत्सिता अधकृतेतियावत् पद्मानां कमलानां सम्पत् समूहः सौभाग्यं वा येन तन्निजांशक्तर्जितपद्मसंपत् , तस्य तथा। "निजः पुनः / आत्मीयः स्वः स्वकीयश्च" 3 / 226 / / . "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्वकम् / लोचनं दर्शनं दृक् च" 3 / 239 // इत्युभयत्राभिधानचिन्तामणिः / अहंद्वदनस्य-चतुस्त्रिंशतमतिशयान सुरेन्द्रादिकृतां पूजा वाहतीति अर्हन् “सुद्विषाहः सत्रिशत्रुस्तुत्ये" 5 / 2 / 26 // इत्यतृशप्रत्ययः, अरिहननात रजोहननात् रहस्याभावाच्चेति वा वृषोदरादित्वात्, तस्य वदनमाननम् मुखमितियावद् अर्हद्वदनम् तस्य तथा / विधौ-चन्द्रे / तद्योगबलात्-तत्सम्पर्कबलात् / योगबलतः / मित्रतां विचाय्यै, तत् कुशेशयमित्यन्वयो वा विधेयः / मित्रताम्-मित्रस्य सुहृदो भावो मित्रता, तान्तथा / विचार्य-समाकलय्य / (स्थितम् ) कुशेशयम्-कुशे जले शेते कुशेशयम्-कमलम् “शयवासिबासेवकालात्" 3 / 2 / 25 / / इत्यनेन सतम्यम् / “कमळं नलिनं पननरविन्द कुशेशयम्" 5 / 226 // "नीरं वारि जलं दकं कमुदकं पानीयमन्भः कुशन्” 4 / 135 / / इत्यभिवानचिन्तामणिः / अलिमालाजटिलम्-अलोनां भ्रनरागां माला पङ्तिालिनाला तया जटिलं यातमलिनालाजटिलन् / (सत्) तदा-तादृशविचारणोत्तरकाले / वने-कानने / स्थितम्-अतिष्ठत् // 23 //