________________ -वाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [57 अन्वयः-प्रजासु, वात्सल्यधरे, अपि, द्विषाम्, शल्यवत्, सपत्राकृतिकारके, जिने, कपाटदुर्षतिरःप्रसारिता(:), तदुरःस्थितः, प्रतापवह्निः, अदहत् // 91 // / वृत्तिः-प्रजासु-प्रकर्षेण जायन्ते इति प्रजाः, जनास्तासु तथा, प्रजाविषय इति यावत्, "लोको जनः प्रजा" 3 / 154 / / इत्यभिधानचिन्तामणिः / वात्सल्यधरे-धरतीति धरः, वात्सल्यस्य वत्सलमावस्य स्नेहविशेषस्येति यावत् धरो वात्सल्यधरस्तस्मिंस्तथा / अपि-संभावनायाम् / द्विषाम्-द्विषत्यात्मानमिति द्विष आन्तरशत्रवः कामादयस्तेषान्तथा / शल्यवत्-बाणाप्रवत् / सपत्र कृतिकारकेसह पौर्वतते इति सपत्रो बाणस्तस्याऽऽकृतिराकारस्तस्य कारकः कर्ता सपत्राकृतिकारकस्तस्मिंस्तथा / जिने-शान्तिनाथे / यद्वा-वाशब्दं पादपूरणार्थकं स्वीकृत्य-प्रजासु, आत्-सल्यधरे-अशल्यधरेऽपीत्येवं "वात्सल्यधरेऽपीति पदं व्याख्येयम् शफारसकारयोरैक्यस्य कचित्स्वीकृतत्वात् तथा च अशल्यधरेऽपि शल्यवत्" इत्यादितो विरोधाभासालङ्कारश्चमकृतिमादधाति / सतीति शेषः / कपाटदुर्धर्षतिर:प्रसारिता-तिरप्रसारं मध्यमलोकञ्यापनं करोतीति तिरप्रसारति, तिरःप्रसारतीति तिरःप्रसारिता, कपाटवर्धषः कपाटदुर्धर्षः सचासौ तिरःप्रसारिता चेति तथा / तदुरःस्थितः-तदीयवक्षस्थलविहितावासः / प्रतापवह्निः-प्रभावानलः / “स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्" इति कोशः / अदहत-भस्मीचकार / द्विष इति शेषः / यद्वा-"सविसर्गाविसर्गयोः” इत्युक्त्या प्रसारिता इत्यत्र सविसर्गान्तं पाठं प्रकल्प्य (द्विषाम् ) तिरस्तिर्यग्लोकं प्रकर्षण स्य.ते ततूकरोतोति तिरप्रसाः, कपाटदुर्धर्षा चासौ तिरःप्रसाः कराटदुतिरःप्रसाः, सैधारिताः शत्रुताः कराटदुबर्षतिरःप्रसारितास्तास्तथा / अदहव-भस्मीचकारेवि वा व्याख्येयम् / / 91 // स्वकेलिलेशस्मितनिन्दितेन्दुनः, पुनर्नु चन्द्रेण मुम्वस्य सौहृदम् / समिद्धतारारुचिहेतुनाऽर्हत-स्ततः स भालेर्धवपुः शशी स्थितः // 12 // अन्वयः-स्वकेलिलेशस्मिननिन्दितेन्दुनः, अर्हतः, मुखस्य, समिद्धतारारुचिहेतुना, चन्द्रेण, पुनः, सोहदम् , नु, ततः, अर्धवपुः, सः, शशी, भाले, स्थितः // 12 // वृत्तिः-स्त्रकेलिलेशस्मितनिन्दितेन्दुनः-स्वा स्वकीया चासौ केलिः क्रीडा स्वकेलिस्तस्या शः कणः स्वकेलिडेशः सचासौ स्मितमीषद्धासः स्वकेलिलेशस्मितम् तेन निन्दितो निर्जित इन्दुश्चन्द्रो येन तत् स्वकेलिलेशस्मितनिन्दितेन्दु तस्य तथा / “निजः पुनः / आत्मीयः स्वः स्वकीयश्च" 3 / 226 / / इत्यभिधानचिन्तामणिः / अर्हतः-पारगतस्य जिनेश्वरस्य भगवतः श्रीमच्छान्तिनाथस्य ।मुखस्यबदनस्य / समिद्धतारारुचिहेतुना-ताराणां तारकाणां कनीनिकानाञ्च रुचिः स्पृहा तारारचिः, समिद्धा-प्रकाशमाना जाज्वल्यमानेति यावत् सा चासौ तारारुचिः समिद्धतारारचिः मैव