________________ 56 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः-गृहीतार्गलदीर्घपीनता-दीर्घ लम्बायमानश्च पीनं स्थूलञ्च दीर्घपीने, तयोर्भावो दीर्घपीनता "द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बद्भूयते” इति नियमात् तलप्रत्ययस्योभयत्रान्वयात् दीर्घता पीनता चेति तदर्थः, गृहीता धृता अर्गलस्येव दीर्घपीनता यया सा गृहीतार्गलदीर्घपीनता / भागवती-भगवतः सर्वसामर्थ्यशालिनः श्रीमतः शान्तिनाथस्य इयम् भागवती, तस्येदमित्यणि स्त्रियां ड्यां तथा, भगवच्छान्तिनाथसम्बन्धिनीत्यर्थः / भुजद्वयी-द्वाववयवौ स्तोऽस्या इति द्वयी भुजयोयी। बभौ-शुशुभे / यया-पूर्वोक्तविशेषणया भुजद्वय्या। दुर्नीतिगृहे-दुष्टा चासौ नीतिायो दुर्नीतिस्तस्या गृहमालयो दुर्नीतिगृहम् तस्मिंस्तथा / तस्मिन्-भगवच्छान्तिनाथविजिते / विषये-देशे / विषयस्तूपवर्तनम् / देशो जनपदो नीवृत् राष्ट्र निर्गश्च मण्डलम् 4 13 // इत्यभिधानचिन्तामणिः / प्रजासु-- लोकेषु जनतायामितियावत् “लोको जनः प्रजा" 3 / 165 / / इत्यभिधानचिन्तामणिः / समागमःसमागच्छतीति समागमः "अच्" 51 49 / / इत्यनेन कर्तरि अच् प्रत्ययः / सम्प्राप्ताः, समापतितो वा / भयागमः-साध्वसप्राप्तिः / “भयंभी तिरातङ्क आशङ्का साध्वसं दरः 2 / 215 / / इत्यभिधानचिनमणिः / ध्र वम्-निश्चयेन / न्यषेधि-न्यवारि, दूरीकृत इति यावत् / / 89 // . . पुरं रिपूणाञ्च कुरङ्गसङ्गतं, कृतं भटैर्भागवतैस्त्रमज्जनम् / उरःश्रिया तत्र च गोपुरस्फुर-कपाटताधायि विभोरसङ्गतम् // 10 // अन्वयः-च, भागवन, भटैः, त्रसजनम् , रिपूणाम् , पुरम् , कुरङ्ग सङ्गतम् , कृतम् , च, तत्र, विभोः, उर:श्रिया, असंगतम्, गोपुरस्फुरत्कपाटता, अधायि // 90 // वृत्तिः-च-पुनः / भागवतैः-भगवतः शान्तिनाथस्य इमे भागवतास्तैस्तथा, भगवच्छान्तिनाथसम्बन्धिभिरित्यर्थः / भटैः-वीरैः, योद्धृभिरित्यर्थः / बमजनम्-त्रसन्त उद्विजन्त उद्वेगमापन्ना इत्यर्थः जना लोका यस्मिँस्तत् त्रसज्जनम् / रिपूणाम्-शत्रूणाम् / पुरम्-नगरम् / कुरङ्गसंगतम्-कुरगाणाम् मृगाणाम् सङ्गतं मित्रं कुरङ्गसङ्गतम् , कुरङ्गाः सङ्गता यत्र तादृशं वा / कृतम्-विहितम् / च-पुनः / तत्र-रिपुनगरे / विभोः-प्रभोः, शान्तिनाथस्येति यावत् / उरःधिया-वक्षःस्थलशोभया / असङ्गतम्-रिपुत्वं यथास्यात्तथा / गोपुरस्फुरत्कपाटता-स्फुरद्दीप्यमानञ्च तत्कपाटम् अरर स्फुरत्कपाटम् गोपुरे पुरद्वारे स्फुरत्कपाटं गोपुरस्फुरत्कपाटम् तस्य भावस्तथा। "अरर पुनः / कूपाटोऽररिः कुपाटः" 472 // इत्यभिधानचिन्तामणिः / पुरद्वार तु गोपुरम् इत्यमरकोशः / अधायि-धृता // 10 // प्रजासु वात्सल्यथप शल्यवद्, द्विषां सपत्राकृतिकारके जिने / प्रतापचह्निस्तस्यतोऽदहत्, कपाटदुर्धर्षतिरःप्रसारिताः // 11 //