________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः यद्वा-दूषणानां शून्यान्यभावा दूषणशून्यानि तेषां ज्ञापका दूषणशून्यज्ञापकाः ते च ते बिन्दवो दूषणशून्यविन्दवः, "मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन समासः, शाकपार्थिवादेराकृतिगणत्वात् ज्ञापकपदस्य लोपश्च / “दोषः स्याद् दूषणे पापे” इति मेदिनी / कृताः-विहिताः / यत्र किमपि न तत्र ज्योतिर्विद्भिः शून्यसूचको बिन्दुः क्रियते तथा रोमकूपा अपि वर्तुला बिन्दुत्वेनोत्प्रेक्ष्यन्ते / अयं रोमकूपो न, किन्तु दोषराहित्यसूचका बिन्दवः एव लिखिताः। “तिस्रः कोट्योऽधकोटी च यानि रोमाणि मानुषे” इति तावन्तः कूपः इति रोमैकैकं कूपके पार्थिवानाम्” इति सामुद्रिकलक्षणं सूच्यते।।८।। अमुष्य दोामरिदुर्गलुण्टने, चमूचरैनोपशमाः समाश्रिताः / प्रभावभारग्रहणे यशोग्रहे, सुवर्णचन्द्रद्युतिभासुरे पुरे // 88 // अन्वयः-चमूचरः, अरिदुर्गलुण्टने, अमुष्य, दोभ्याम् सुवर्णचन्द्रद्युतिभासुरे, पुरे, प्रभावभारग्रहणे, यशोप्रहे, उपशमाः, न समाश्रिताः // 88 // ___ वृत्ति—चमूचरैः-चमूषु सेनासु चरन्ति विचरन्तीति चमूचरा तैस्तथा / सैनिकैरित्यर्थः / अरिदुर्गलुण्टने-अरीणां शत्रुणाम् (दुःखेन गम्यन्ते इति ) दुर्गाणि कोहानि अरिदुर्गाणि तेषां लुण्टनं कुण्ठनमरिदुर्गलुण्टनम् तस्मिँस्तथा / अमुष्य-भगवतः श्रीशान्तिनाथस्य / दोाम्-बाहुभ्याम् / सुवर्णचन्द्रद्यतिभासुरे-सुवर्ण काश्चनञ्च चन्द्रश्चन्द्रमाः सुवर्णचन्द्रौ तयोद्युतिश्छविः कान्तिरिति यावत्, सुवर्णचन्द्रद्युतिस्तया भासते द्योतते तच्छीलं सुवर्णचन्द्रद्युतिभासुरम् तस्मिंस्तथा / यद्वा-सुष्टु शोभनः वर्णो रूपं यस्य स सुवर्णः, सुवर्णश्चासौ चन्द्रः सुवर्णचन्द्रस्तस्य द्युतिश्छविः सुवर्णचन्द्रयुतिस्तया भासते तच्छीलमिति पूर्ववत् सुवर्णचन्द्रद्युतिभासुरन्तस्मिंस्तथा / पुरे-नगरे। प्रभावभारग्रहणे-प्रभावस्य प्रतापस्य तेजस इति यावत् भारः-आधिक्यमतिशयो वा प्रभावभारस्तस्य ग्रहणमपहरणम् आत्मसात्करणमिति यावत् प्रभावभारग्रहणम् तस्मिंस्तथा / अथवा प्रभावभारग्रहणे-इत्यत्र प्रभौ रिपौ अभमदीप्ति यत् आरम्-अरिसमूहः अभारम् तस्य ग्रहणमभारग्रहणन्तस्मिंस्तथा / यशोग्रहेग्रहणं ग्रहः, यशसः कीर्तेऽहो यशोग्रहस्तस्मिंस्तथा / उपशमा:-प्रशमाः शान्तय इत्यर्थः / न-नहि / समाश्रिता:- अवलम्बिताः सेविता इति यावत् / / 88 / / भुजद्वयी भागवती बभौ यया, ध्रुवं गृहीतार्गलदीर्घपीनता / न्यषेधि तस्मिन विषये भयागमः, प्रजासु दुर्नीतिगृहे समागमः // 89 // अन्वयः-गृहीतार्गलदीर्घपीनता, भागवती, भुजद्दयी, बी, यया, दुर्नीतिगृहे, तस्मिन् , विषये, प्रजासु, समागमः, भयागमः, ध्रुवम् , न्यषेधि // 89 //