________________ 54 ] श्रीजननषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र जिनस्य न स्विन्नवपुर्न खिन्नता, परेष्विति प्रत्ययनाय निर्मलाः / न रोमकूपौघमिषाज्जगत्कृता, जलार्द्रितास्तेऽवयवाः कृतास्ततः // 86 // अन्वयः-ततः, जिनस्य, स्किनवपुः, न, खिन्नता, न, इति, परेषु, प्रत्ययनाय, निर्मलाः, ते, अवयवाः, रोमकूपौघमिषात् , जलार्दिताः, न, कृताः, // 86 // वृत्तिः-ततः-तादृश्गुणविशिष्टत्त्वाद्धेतोस्तदनन्तर वा / जिनस्य-अर्हतः, तीर्थकरस्येवि यावत् / स्विमवपुः-स्विद्यते स्मेति स्विन्नम् स्वेदयुक्तम् धर्मामिति यावत् स्विन्नं च तद्वपुः शरीरम् स्विन्नवपुः / न-नहि / खिन्नता-खिन्नस्य भावः खिन्नता खेद इत्यर्थः / न-नहि / इति-इत्येवं लक्षणद्वयस्य प्रभावद्वयस्येति यावत् / परेषु-अन्येषु सर्वसाधारणेष्वित्यर्थः / प्रत्ययनाय-बोधनाय / निमला:-मलात्-मालिन्यान्निर्गता निर्मला मलरहिता इत्यर्थः / 'प्रात्यवपरिनिरादयः" 33147 // इत्यनेन समासः / ते-अपूर्वसौन्दर्यवत्त्वेन प्रसिद्धा इत्यर्थः / अवयवा:-अङ्गानि / रोमकूपौघभिषात्रोम्णाम् लोम्नाम् कूपाः वर्तुलाकारच्छिद्राणि रोमकूपास्तेषां मिषं व्याजो रोमकूपौघमिषन्तस्मात्तथा / "कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् / व्यपदेशो मिषं लमं निभं व्याजः" 3 / 42 // इत्यभिधानचिन्तामणिः / जलाड़िता:-सलिलक्लिन्नाः / न-नहि / कृताः-विहिताः // 86 // मुखेऽस्य नालीकविमा प्रतिष्ठिता, शयद्वये वा चरणद्वयेऽपि च / ध्रुवेण लोम्नामिव मूलकैतवात्, कृताच किं दषणशून्यबिन्दवः // 7 // अन्धयः-अस्य, मुखे, वा, शयद्वये, च, चरणद्वये, अपि नालीकविभा, प्रतिष्ठिता, किञ्च,ध्रुवेन, लोम्नाम् , मूलकैतवात् , इव, दूषणशून्यविन्दवः कृताः // 8 // वृत्तिः-अस्य-भगवतः शान्तिनाथस्य / मुखे-वदने। वा-समुच्चये। “वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे। समुच्चये च विस्रम्भे नानार्थातीतयोरपि" इति मेदिनी। शयद्वये-द्वाववयवावस्येति द्वयम् शययोहस्तयोद्वयम् शयद्वयम् तस्मिंस्तथा। “पश्चशाखः शयः समः / हस्तः पाणिः करः" 32255 / / इत्यभिधानचिन्तामणिः / च-पुनः / चरणद्वये-पादयुगले / अपि-सम्भावनायाम् / नालीकविभानालीकं विसप्रसूनम् तस्य विभा प्रभा नालीकविमा / प्रतिष्ठिता-संस्थिता। विराजितेति यावत् / अत्र-मुखे बाह्याभ्यन्तरिकाऽऽशयद्वये ऐहलौकिकपारलौकिकाऽऽचरणद्वये च अलीकस्य असत्यस्य विभा प्रभा अलीकविमा नेत्यपि दष्टव्यम् / किश्च-अपि च / ध्रवेण-स्थैर्यवता जगत्क; ब्रह्मणेत्यर्थः / लोम्नाम्-रोम्णाम् / मूलकैतवात्-मूलस्य आधारस्थानस्य कैतवम् मूलकैतवन्तस्मात्तथा / इव-यथा / दुषणशू-यबिन्दवा-दूषणैर्दोषैः पापैर्वा शून्या विरहिता दूषणशून्यास्ते च ते बिन्दवो दूषणशून्यबिन्दवः,