________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः बहिष्ठे इति यावत् / कोटिभिः-अपरिमितैरित्यर्थः / कोटिसङ्ख्यकरोमभिरिति यावत् / गणनाम्एको द्वौ त्रय इत्येवंरीत्या गणनक्रियाम् / व्यधात-अकरोत् / किम-वितर्केऽव्ययम् “किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि "इति मेदिनी" / अनेन सर्वगुणवत्त्वन्तस्य द्योतितम् बहिष्ठे रोमभिर्बहिष्ठानां गुणानां गणनासंभवेऽपि / तु-किन्तु / परे-मुख्ये श्रेष्ठे गुणभरे / “परः श्रेष्ठारिदूरान्योत्तरे क्लीबन्तु केवले" इति मेदिनी / अमङख्येयदशा-सङ्ख्यातु गणयितु योग्या संख्येया, न सङ्ख्येया अस ङ्ख्येया असङ्ख्येया चासौ दशा अवस्था असङ्ख्येयदशा / सङ्ख्याभाव इति यावत् / एव-अवधारणार्थंकमव्ययम् / तत्-तस्मात् / जिन-अर्हति परमेष्ठिनि / स्वभावत:-निसर्गतः / असङ्ख्येदशा संचक्षतेऽत्रेति सङ्ख्यं युद्धम् "चक्षो वाचि" |4|4 // इति ख्यादेशः, तद्योग्या सङ्ख्येया न सङ्ख्येया असङ्ख्येया सा चा सौ दशा अवस्था तथा / "युद्धं तु सङ्ख्यं कलिः" 3 / 460 // इत्यभिधानचिन्तामणिः / “दशाऽवस्थादीपवोर्वस्त्रान्ते भूम्नि योषिति" इति मेदिनी। भवेत् स्यात् / द्विधाऽपीत्यस्य असङ्ख्येयदशा इत्यत्र वाऽन्वयः करणीयः / द्वाभ्यामपि प्रकाराभ्याम् जिनेऽसङ्ख्येयदशा निर्बाधेति भावः / / 84 // नभस्तले किं फलके खगार्चिषां, विधिन लेखाभिरजीगणद् गुणान् / गुणेतराभावपरा विरेजिरे, ग्रहच्छलाद् बिन्दव एव केवलम् // 85 // अन्वयः-विधिः, नभस्तले, फलके, खगार्चिषाम् , लेखाभिः, ( अस्य ) गुणान् , न, अजीगणत् , किम्, प्रहच्छलात् , गुणेतराभावपराः, बिन्दवः एव, केवलम् , विरेजिरे // 85 // वृत्तिः-विधिः-विधाता, जगत्स्रष्टेति यावत् / नभस्तले नभःस्वरूपे, आकाशात्मके इति यावत् / “तलं स्वरूपेऽनूऽस्त्री क्लीबं ज्याघातवारणे” इति मेदिनी / फलके-पीठिकायाम् पीठे वा। खगार्चिषाम्-खे आकाशे गच्छन्तीति खगा ग्रहनक्षत्रादयस्तेषामर्ची षि प्रभा ज्वाला इति यावत् खगाची षि तेषान्तथा / लेखाभिः-रलयोः साम्यात् रेखाभिः, लिपिभिः, राजिकाभिरिति यावत् “लेखा लिपिराजिकयोर्मता" इति मेदिनी / (अस्य भगवतः शान्तिनाथस्य ) गुणान्-शौर्य-वीय्यौदा-- दीन् / न-न हि / अजीगणत-संख्यातवान् / किम्-अपि तु संख्यातावानेवेति / ग्रहच्छलातप्रहपदं तारादीनामप्युपलक्षकम् , अजहत्स्वार्थलक्षणया ग्रहनक्षत्रोभयबोधपरमिति यावत् / एवञ्च ग्रहाणां चन्द्रसूर्य-मङ्गलादीनां नक्षत्राणाञ्च छलं व्याजो ग्रहच्छलन्तस्मात्तथा / गुणेतराभावपरा:-गुणात् शौर्यवीर्योदा-देरितरे भिन्ना गुणेतरे दोषा इत्यर्थ तेषामभावो राहित्यम् शून्यतेति यावत् गुणेतराभावस्तत्परास्तथा दोषाभावबोधका इत्यर्थः / बिन्दवः-वर्तुलाकाररेखाविशेषाः। एव-अवधारणार्थकमव्ययम् / केवलम्-परम् / “परः श्रेष्ठारिदूरान्योत्तरे क्लीबन्तु केवले” इति मेदिनी / विरेजिरेदिदीपिरे, संशोभिता इत्यर्थः / / 85 / /