________________ 52] . श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे महीयसाऽसौ विधिनाऽऽधिनाकृतः, प्रमोर्मुखाम्भोरुहसाम्यधित्सया। शरत्प्रयत्नेऽपि तदाकृतौ प्रभु-नं शारदः पार्वणशर्वरीश्ववरः // 8 // अन्वयः-विधिना, प्रभाः, मुखाम्भोरुहसाम्यधित्सया, महीयसा, आधिना, कृतः, असो, शारदः, पार्वणशर्वरीश्वरः, शरत्प्रयत्नेऽपि, तदाकृतो, न प्रभुः // 83 // वृत्तिः-विधिना-जगत्स्रष्ट्रा ब्रह्मणेत्यर्थः / प्रभोः-प्रकर्षेण भवतीति प्रभु-विमुः, भगवान शान्तिनाथ इत्यर्थस्तस्य तथा / “शं-सं-स्वयं-विप्राद् भुवो दुः" इत्यनेन डु-प्रत्ययः / “पतीन्द्रस्वामिनाथार्याः प्रभुतेश्वरः प्रभुः" 3 / 23 // इत्यभिधानचिन्तामणिः / मुखाम्भोरुहसाम्यधित्सया-मुखमाननम् अम्भोरुहं कमलमिवेति "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 // इत्यनेनोपमितसमासे मुखाम्भोरुहम् , तेन साम्यम् सादृश्यम् तुलनेति यावत् मुखाम्भोरुहसाम्यम् तस्य धित्सा-धातुमिच्छा धित्सा धारणेच्छा मुखाम्भोरुहसाम्यधित्सा तया तथा / महोयसा-अतिशयेन महान महीयान् तेन तथा / आधिना-प्रत्याशया / “आधिः पुमान् चित्तपीडाप्रत्याशाबन्धकेषु च” इति मेदिनी / कृतःरचितः / असौ-अयम् / शारदः-शरदि तदाख्यऋतौ भवः शारदः / पार्वणशर्वरीश्वरः-शृणाति चेष्टा इति शर्वरी निशा तस्या ईश्वरः प्रभुः शर्वरीश्वरश्चन्द्रः, पर्वणि पूर्णिमायां भवः पार्वणः स चासो शर्वरीश्वरः पार्वणशर्वरीश्वरः / “निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा" 2 / 55 // “पञ्चदश्यौ यसकालौ पक्षान्तौ पर्वणी अपि" 2 / 62 / / इत्युभयत्राभिधानचिन्तामणिः / शरत्प्रयत्नेऽपि-शरद्भिवः प्रयत्नः शरदः प्रयत्नो वा शरत्प्रयत्नः, अत्यन्तसंयोगे द्वितीया तस्मिन शरत्प्रयत्ने, अपि-खलु / तदाकृतीतस्य प्रभोः श्रीशान्तिनाथस्य आकृतिराकारः स्वरूपमिति यावत्, तदाकृतिस्तस्यान्तथा / न-नैव / सर्व वाक्यं सावधारणं भवतीतिनियमात् / प्रभुः-समर्थः / अत्र शक्तार्थवषडित्यादिना प्रमुपदस्य शतार्थत्वाच्चतुर्थ्या आवश्यकत्वे सप्तमी चिन्त्या / शान्तिनाथमुखाम्बुजसाम्यमाधातुं महीयसा प्रयत्नेनापि (करणेन ) विधिना (का) विनिर्मितश्चन्द्रो वर्षाणि यावत् कृतप्रयासोऽपि प्रभुमुखसाम्यमाधातुमसमर्थ एवेति भावः / / 83 // किमस्य लोम्नां कपटेन कोटिभि-द्विधापि गौणे गणनां व्यधाद् विधिः / परे त्वसङ्ख्येयदशैव तज्जिने, भवेदसंख्येयदशा स्वभावतः // 4 // अन्वयः-विधिः, लोम्नाम् , कपटेन, अस्य, द्विधा, अपि, गौणे, कोटिभिः, गणनाम् , व्यधात् , किम् , तु, परे, असङ्ख्येयदशा, एव, तजिने, स्वभावतः, असङख्येयदशा, भवेत् // 84 // ___ वृत्तिः-विधिः-ब्रह्मा / लोम्नाम्-रोम्णाम / कपटेन-अपदेशेन, व्याजेनेत्यर्थः / अस्यभगवतः शान्तिनाथस्य / द्विधापि-द्वाभ्यामपि प्रकाराभ्याम, अपि / गोणे-गुणभरे अप्रधाने सामान्ये