________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः हिः करप्राहः स एव विधिः करमाहविधिस्तस्मात्तथा / पाणिगृहीतश्रियो लोकस्य शोभासम्पत्तिभरता युक्तव / इव-यथा। तच्छयच्छायलव:-तस्य भगवतः शान्तिनाथस्य शयौ हस्तौ तच्छयौ तयोश्छायाः कान्तयः सच्छोभा इति यावत् तच्छयच्छायम्-छाया बाहुल्ये इति क्लीबत्वमेकवचनञ्च तस्य लवो लेशः कमिकेति यावत् तच्छयच्छायलवः / “पञ्चशाखः शयः शमः / हस्तः पाणिः करः" 3 / 255 / / इत्यभिधानचिन्तामणिः / “छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः / पालनोत्कोचयोर्दीप्तिसच्छोभापङ्कितषु स्त्रियाम्' / इति मेदिनी। अपि-सम्भावनायाम् / पनवे-नवकिसलयादौ / क-कुत्र / वस्तुतस्तु सार्वविभक्तिकेन तसाऽत्रभाव्यम् तथा च पल्लवे कुतः / आश्रयेत्-संश्रयेत् / तदीयकरकमलशोभाकणिकापि नवकिसलयादौ कुतः सम्भावनीयाऽपीत्यर्थः / यतः-यस्मात् कारणात् / असूर्यदर्शी-सूर्य्यस्याप्यनवलोककः / राजवधूजन:-राज्ञो क्धू राजवधूः स एव जनो लोको राजवधूजनः / वनेचरे-वनेषु काननेषु चरतीति वनेचरः पल्लवस्तस्मिंस्तथा / परम्-केवलम् / “परः श्रेष्ठारिदूरान्योत्तरे क्लीबन्तु केवले” इति मेदिनी। पदम्-चरणम् / (अपि) न-नहि / भजेत-आश्रयेत् पल्लवादेवनेचरत्वात् राजवधूस्थानापन्नश्रियः संसर्गस्य बाधितत्वात् राजवधूनामसूर्यपश्यत्वात् श्रीसंसर्गाभावेन पल्लवे श्रीसम्बद्धभगवच्छान्तिनाथशयच्छायलवोऽप्यसम्भावनीय एवेति भावः / / 8 / / करेऽनुरागादिव नेतुरेतु कि, जडेऽस्थिरा श्रीः खलु पद्मसङ्गमम् / तदास्यदास्येऽपि गतोऽधिकारितां,न तजनालीकमृदब्ज एव सः // 2 // अन्वयः–नेतुः, करे, अनुरागात् , इत्र, जडे, अस्थिरा, श्रीः, खलु, पद्मसङ्गमम् , किम् , एतु / (यता ) तजनालीकमृत्, एव, सः, अब्जः, तदास्यदास्येऽपि, अधिकारिताम् , न, गतः // 82 // वृत्तिः नेतुः-नायकस्य, त्रिभुवनशासकस्य भगवतः श्रीशान्तिनाथस्य / करे-पाणौ / अनुरागाव-स्नेहात् प्रेमवशत इति यावत् / इव-यथा। जडे-जाड्यविशिष्टे / अस्थिरा-चश्चला। श्री:लक्ष्मीः। खलु-निश्चयेन / पद्मसङ्गमम्-पद्मः कमलैः सङ्गमः संसर्गः सहवास इति यावत् पद्मसङ्गमस्तन्तथा / किम्-कथम् / किमिति प्रश्नार्थकमव्ययम् / “किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि” इति मेदिनी / एतु-गच्छतु, प्राप्नोत्विति यावत् / ( यतः) तजनालोकभृत्-तत्रैव पङ्के जातं तज्जम् तत्पूर्वकाजनधातोः प्रत्ययः, तदेव नालीकं विसप्रसूनम् तजनालीकम् तद् बिभर्ति धारयति पोषयति वेति तज्जनालीकभृत् / एव-अवधारणार्थकमव्ययम् / :-प्रसिद्धः / अब्जः-अप्सु जलेषु जातोऽन्जः कमलम् / तजनालीकमृत्-पञ्चम्यर्थे प्रथमा ते च ते जनास्तजनास्तेषु अलीकमसत्यं विभर्ति पोषयतीति अलीकभृत् , भावप्रधानत्वात् तज्जनालीकभृत्त्वादित्यर्थः / तदास्यदास्येऽपि-तस्य भगवतःशान्तिनाथस्य आस्यं मुखम् उदास्यम् तस्य दास्यं किङ्करत्वम् तदास्यदास्यन्तस्मिन् तदास्यदास्ये / अपि-खलु / अधिकारिताम्• योग्यताम् / न-नहि / गत:-प्राप्तः // 82 / /