________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे भावसौ-विभा प्रभैव विभावसुः, सूर्य: विभाविभावसुस्तस्मिंस्तथा / प्रसृत्वरे-प्रसरणशीले / (सति) विपक्षपक्ष-विपक्षाणां विरोधिनां पक्षः सहायो बलं वा विपक्षपक्षः / “पक्षो मासार्द्धके पाणिग्रहे साध्यविरोधयोः / वेशादेः परतो वृन्दे बले सखिसहाययोः” इति मेदिनी / त्वरया-वेगेन, शीघ्रतयेत्यर्थः / वनम्-काननम् / ययौ-गतवान् / प्राप्तयुवत्वे भगवति शान्तिनाथे तदीयतेजः सोढुमशक्नुवन्तः शत्रुपक्षीयाः स्वस्वराज्यां परित्यज्य काननमाश्रिता इति भावः // 79 // अधारि पद्मषु तदहिणा घृणा, ततः श्रियाः स्थानपरिश्रमोऽप्यतः। स्वयं तदीयश्रियमेव बिभ्रता, न्यवारि वारिस्थिति-जाड्यमप्यदः // 8 // अन्वयः-तदंहिणा, पद्मषु, घृणा, अधारि, ततः, श्रियाः, स्थानपरिश्रमः, अपि न्यवारि, अतः, स्वयम् , तदीयश्रियम् , बिभ्रता, एव, अदः, वारिस्थितिजाड्यम् अपि, ( न्यवारि ) // 8 // वृत्तिः तदंहिणा-तस्य भगवतः शान्तिनाथस्य अंहिश्चरणस्तदंहिस्तेन तथा। "चरणः क्रमणः पादः पदोऽह्निश्चलनः क्रमः" 32280 // इत्यभिधानचिन्तामणिः / पोषु-कमलेषु / घृणा-जुगुप्सा अनादर इति यावत् / अधारि-विहिता / “घृणा जुगुप्सा-कृपयोः" इति मेदिनी / ततः-तस्माद्धेतोः / श्रियाः-लक्ष्म्याः शोभाया वा / “शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीखि कथ्यते” इति यादवः / स्थानपरिश्रमः-स्थानेन यत्र तत्र कमले अन्यराजादौ वा अवस्थानेन यः परिश्रम महानायासः स्थानपरिश्रमः / अपि-सम्भावनायामव्ययम् / न्यवारि-न्यषेधि दूरीकृत इति यावत् / अत:-अस्मात् / स्वयम्-स्वस्मिन् / तदीयश्रियम् - तदीयशोभाम् / विम्रता-धारयता / एव-खलु / अवधारणार्थकमव्ययम् / अद:-एतत् / वारिस्थितिजाब्यम्-वारिणि जले स्थितिरवस्थानं वारिस्थितिस्तया जाड्यं शैत्यम् जडतेति यावत् / अपि-खलु (न्यवारि-दूरीकृतम् ) भगवतः श्री शान्तिनाथस्य चरणे वारिस्थिविजाड्यं नाभूदिति भावः / / 80 // श्रिया करग्राहविधेरिवाश्रयेत्, क तच्छयच्छायलवोऽपि पल्लवे ! / . वनेचरे राजवधूजनो यतो, हयसूर्यदर्शी न पदं परं भजेत् // 81 // अन्वयः-श्रिया, करग्राहविधेः, इव, तच्छयच्छायलवः, अपि, पल्लवे, क, आश्रयेत् , यतः, असूर्यदर्शी, राजवधूजनः, वनेचरे, परम् , पदम् , न, भजेत् // 81 // वृत्तिः–श्रिया-लक्ष्म्या, शोभातिशयशालिन्या कमलयेति यावत् / “लक्ष्मीः पद्मा रमा या मा सा ता श्रीः कमलेन्दिरा" 2 / 140 / / इत्यभिधानचिन्तामणिः / करग्राहविधेः-ग्रहणं प्राहः करस्य पामे