________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [49 मारस्य सहो भारसहस्तस्य पृथिव्या भारं वोढुं समर्थस्येत्यर्थः / भूभुजः-राज्ञः श्री विश्वसेनस्येत्यर्थः / सुजे-बाहौ / गतश्रमः-गतो नष्टः श्रम आयासो यस्य स गतश्रमः / क्रमेण-क्रमशः / विश्रामसुखेविश्राम आरामश्च सुखं सौख्यञ्च विश्रामसुखे / विश्रामस्य सुखजनकतयोपजीव्यत्वादभ्यर्हितत्वाद्धेतोः अल्पस्वरत्वेऽपि सुम्वशब्दस्य तस्यैव पूर्वनिपातः / प्रणीतवान-आसादितवानित्यर्थः, धातूनामुपसर्गमहिमाऽन्यथाप्यनेकार्थत्वात् / / 7 / / प्रपद्य विद्या अनधीतवानपि, दधत् कुलीनाः सकलाः कलोः प्रभुः / सखा रतीशस्य ऋतुयथा वनं, विवेश पित्रोईदयाब्जमात्मजः // 7 // अन्वय:-अनधीतवान् , अपि, विद्याः, प्रपद्य, सकलाः, कुलीनाः, कलाः, दधत् , आत्मजः, प्रभुः, रतीशस्य सखा, ऋतुः, वनम् , यथा, पित्राः, हृदया जम् विशेष // 78 // वृत्तिः-अनधीतवान्--अपठितवान् / अपि-खलु / विद्या:-वेत्ति जानात्याभिरिति विद्याः नानानि शास्त्रज्ञानानीति यावत् / प्रपद्य-सम्प्राप्य / सकला:-अखिलाः समस्ता इत्यर्थः / कुलीना:कुलाय वंशाय हिताः कुलीनाः “तस्मै हिते” 7 / 1 / 35 / / इत्यनेन ईनप्रत्ययः / कला:-विज्ञानानि / दधत-धारयन् / आत्मजः-तनयः, श्रीविश्वसेनस्येतिशेषः / प्रभु:-विभुः, भगवान शान्तिनाथः / रतीअस्य-रत्याः-कामदेवपल्या ईशः प्रभू रतीशः कामदेवः, तस्य तथा / सखा-मित्रम् / ऋतु:वसन्ताख्यऋतुः / वनम्-काननम् / यथा-इव / “यथा तुल्यार्थमानयोः” इति मेदिनी / पित्रो:जननीजनकयोः अचिराविश्वसेनयोरित्यर्थः / हृदयाब्जम्-हृदयमन्तःकरणम् अब्जं कमलमिवेति हृदयाजम् “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 // इत्यनेनोपमितसमासः। विवेशः-प्रविष्टवान् / / 8 / / विभोः स्वभावेन विभाविभावसौ. प्रसृत्वरे दुस्तमसो विजित्वरे / विपक्षपक्षस्त्वस्या ययौ वन, वपुस्तथाऽऽलिङ्गन्दथास्य यौवनम् // 79 // अन्वयः-अथ, अस्य, वपुः, तथा यौवनम् , आलिङ्गत् ( यथा ) विभोः, दुस्तमसः विजित्वरे, स्वाभावेन च, विभाविभावसौ, प्रसृत्वरे ( सति ) विपक्षपक्षः, स्वरया, वनम् , ययौ // 7 // वृत्तिः-अथ-अनन्तरम् / शैशवोत्तरकाले इति यावत् / अस्य-भगवतः श्रीमतः शान्तिनाथस्य / वपुः-शरीरम् / कर्तृ, तथा-तेन प्रकारेण / यौवनम्-यूनो भावो यौवनम् तारुण्यमित्यर्थः / आलिङ्ग-प्रापत्, प्राप्रवानितियावत् / (यथा येन प्रकारेण / ) विभो:-प्रभोः / शान्तिनाथस्येत्यर्थः / दुस्तमसः-दुष्टं तमो दुस्तमो राहुस्तस्य तथा / विजित्वरे-विजेतरि / स्वभावेन-प्रकृत्या। विभावि