________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रयोजनीयः, "स्तोकनम्रा स्तनाभ्याम्" इत्यादिवत् क्रियाविशेषणेनापि समासः / अपि-सम्भावनायाम् / अपनवान्-प्राप्तवान् / / 75 // त्रयोदशाहेऽप्यसितेऽथ शुक्रजे, प्रणीतवान् शैशवशेषवानयम् / स लब्धजन्मा सकले कुलेऽतुले-प्यरिष्टशान्ति भुवि शान्तिसंज्ञया // 76 // __ अन्वयः-अथ, शुक्रजे, असिते, त्रयोदशाऽहे, अतुले, सकले, कुले, लब्धजन्मा, शैशवशेषवान, अपि, स, अयम् , शांतिसंज्ञया, भुवि, अरिष्टशान्तिम् , प्रणीतवान् // 76 // वृत्तिः-अथ-अनन्तरम् / शुक्रजे-शुक्रे ज्येष्ठे जातं शुक्रजस्तस्मिंस्तथा / "ज्येष्ठस्तु शुक्रः" . 2068 इत्यभिधानचिन्तामणिः / असिते-कृष्णे कृष्णपक्षे इत्यर्थः / त्रयोदशाहे-त्रयोदशश्चनदहस्रयोदशाहस्तस्मिंस्तथा / ज्येष्ठासितत्रयोदश्यामित्यर्थः / अतुले-न तुला उपमा यस्य तदतुलमतुलनीयमित्यर्थस्तस्मिंस्तथा / सकले–कलया सहितं सकलं तस्मिँस्तथा / कुले-अन्वये वंशे इति यावत् / लब्धजन्मालब्ध प्राप्तं जन्मोत्पत्तिर्येन स तथा / शैशवशेषवान-शैशवं वाल्यं शेष उपयुक्ततरो यस्य स शैशवशेषः, अतिबाल्यवानित्यर्थः / “शेषः सीरिण्युपयुक्तरेऽपि च" इत्यनेकार्थः / अपि-सम्भावनायामव्ययम् / "अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये” इति मेदिनी / सः-प्रसिद्धः / अयम्-एषः, भगवान् शान्तिनाथः / शान्तिसंज्ञया-शान्तिरिति संज्ञा नाम, शान्तिसंज्ञा, तया तथा / भुवि-पृथिव्याम् / सर्वस्मिन् स्थाने इति यावत् / “भूः स्थानमात्रे कथिता धरण्यामपि योषिति" इति मेदिनी / अरिष्टशान्तिम्-अरिष्टस्य-अशुभस्य शान्तिः प्रशमनम् अरिष्टशान्तिस्तान्तथा / “अरिष्टमुशुभे तक्रे सूतिकागार आसवे” इति मेदिनी। प्रणीतबान्-कृतवान् जन्मादधान एवान्वर्थाभिधानत्वाव विघ्नव्यूहं समुन्मूल्याञ्चकारेत्यर्थः / ___ कृताभिषकोऽपि सुरैः सुराचले, प्रणीतवान् शैशवशेषवानयम् / र भुजे भुवो भारसहस्य भूभुजः, क्रमेण विश्रामसुखे गतश्रमः // 77 // अन्वयः-सुरेः, सुराचले, कृताभिषेका, शैशवशेषवान् , अपि, अयम् , भुवः, भारसहस्य, भूभुजः, भुजे, गतश्रमः, क्रमेण, विश्रामसुखे, प्रणीतवान् // 77 // वृत्तिः-सुरैः-देवैः / सुराचले-न चलतीत्यचलः पर्वतः सुराणां देवानाचलः सुराचलस्तस्मॅिस्वथा, मेरुपर्वते इत्यर्थः / कृताभिषेक:-कृतो विहितः अभिषेक: संस्नापनं यस्य स कृताभिषेकः / शैशवशेषवान्शैशवं शिशुत्वम् बाल्यमित्यर्थः शेष उपयुक्ततरद्यस्य स शैशवशेषः, अतिबाल्यवानित्यर्थः / अमि-सम्भावनायाम् / अयम्-असौ भगवान् शान्तिनाथ इत्यर्थः / भुवा-पृथिव्याः / मारसहस्य-सहते इति म