________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [47 जगज्जयन्तेन च कोशमक्षयं, समं दधानेन बिडोजसा समा। अलम्भि शोभा भुवि भूभुजा सुते-सितेऽवतीर्णेऽश्वदिने नमस्यजे // 74 // अन्वयः-भूभुजा, नमस्यजे, असिते, अश्वदिने, सुते, अवतीर्णे, (सति) भुवि, जयन्तेन, समम् , 'जगत् , च अक्षयम् , कोशम् , दधानेन, विडोजसा, समा, शोभा, अलम्भि // 74 // वृत्तिः-भूभुजा-भुवं पृथिवीं भुनक्तीतिभूमुक तेन तथा पृथ्वीपालकेन श्रीविश्वसेनेनेत्यर्थः / नमस्यजे-नभस्ये भाद्रपदे जातं नभस्य जम् नभस्यपूर्वानन्धातोः "सप्तम्याः" 5 / 1 / 169 // इत्यनेन डप्रत्ययः / तस्मिंस्तथा / असिते-कृष्णपक्षे / अश्वदिने-सप्रम्यां तिथौ / सुते-पुत्रे भगवच्छ्रीमच्छान्तिनाथात्मके तनूजे इत्यर्थः / अवतीर्णे-समुत्पन्ने। (सति) भुवि-पृथिव्याम् / जयन्तेन-तदाख्यपुत्रेण / समम्-सह / जगतमुवनम्। च-पुनः / अक्षयम्-न क्षयोऽपचयः रिक्ततेति यावद्यस्य सोऽक्षयस्तन्तथा / कोशम-भाण्डागारम् निधिमितियावद / दधानेन-धारयता / विडोजसा-वेवेष्टि व्याप्नोति सर्वमिति विद्, विट् व्यापकमोजो बलं यस्य स विडोजा इन्द्रस्तेन तथा / "इन्द्रो हरिदुश्च्यवनोऽच्युताप्रजो वत्री विडोजा मघवान् 'पुरन्दरः” 2185 // इत्यभिधानचिन्तामणिः / समा-तुल्या / शोमा-कान्तिः / “शोभा कान्तीच्छयोर्मता" इति मेदिनी / अलम्भि-प्रापि / समधिगतेतियावत् // 4 // जगज्जयं तेन च कोशमक्षयं, प्रणेष्यता स्वप्नगसिन्धुरादिना / मणीगणान्तेन सुरोऽत्र सूचितो-चिराचिराकुक्षिमपि प्रपन्नवान् // 5 // ___ अन्वयः-जगज्जयम् , (प्रणेष्यता ) च, तेन, अक्षयम् . कोशम्, प्रणेष्यता, मणीगणान्तेन, स्वप्नगसिन्धुरादिना, सूचितः, सुरः, अत्र, अचिराचिराकुक्षिम्, अपि, प्रपन्नवान् // 75 // वृत्तिः-जगजयम्-जगतः समप्रभुवनस्य जयो विजयः जगज्जयस्तन्तथा (प्रणेष्यतेत्यनेनान्वितम्) च-पुनः / तेन-जगज्जयेन / अक्षयम्-अनपचयम् परिपूर्णमित्यर्थः / कोशम्-भाण्डारगृहम् / प्रणेष्यताविधास्यता / मणीगणान्तेन-मणीनां रत्नानां गणो मणीगणः, रत्नराशिः, सोऽन्तो यस्य स मणीगणान्तस्तेन तथा / स्वप्नगसिन्धुरादिना-स्वप्नगः-स्वप्नावस्थायामागत: चासौ सिन्धुरो हस्ती स्वप्नगसिन्धुरः,स आदियस्य तेन तथा। "हस्ती मतङ्गजगजद्विपकर्य्यनेकपा मातङ्गवारणमहामृगसामयोनयः / स्तम्बरमद्विरद-सिन्धुरनागदन्तिनः" 4 / 283 // इत्यभिवानचिन्तामणिः। गजवृषभादिचतुर्दशस्वप्नैरितियावत् / सूचित:-विज्ञापितः / सुर:-देवः / अत्र-अस्मॅिल्लोके / अचिराचिराकुक्षिम-अचिरायाः तदारव्यश्रीविश्वसेनभार्यायाः कुक्षिगर्भः पचिराकुक्षिः अचिरं यथास्यात्तथा अचिराकुक्षिरचिराचिराकुझिस्तन्तथा / पाठोऽयं समासश्चापि कथञ्चि