________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः- सतीषु, सत्यार्थयशस्वती, स्वतः, रूपात् , शची, इव, अचिरा, ऊर्ध्वम् , गुणाङ्गणम् , पुरा, भवति, इति, वेधसा, अस्य, तुष्टये, इदम् , कलत्ररत्नम् , विदधे // 0 // ___ वृत्तिः-सतीषु-पतिव्रतासु, पतिसेवापरायणास्वित्यर्थः / सत्यार्थयशस्वती-सत्यम् तथ्यमेव अर्थः प्रयोजनम् सत्यार्थस्तेन यशः कीर्तिः सत्यार्थयशः, तदस्त्यस्या इति सत्यार्थयशस्वती / स्वतः-सहजात् / न तु कृत्रिमादित्यर्थः / रूपात-सौन्दर्या स्वभावाद्वा / “रूपं स्वभावे सौन्दर्ये' इति विश्वः / शचीइन्द्राणी / इव--तुल्या / अचिरा-तदाख्यप्रमदा / ऊर्ध्वम्-उत्कृष्टम् / गुणाङ्गणम्-गुणानां सौन्दर्योदार्यपातिव्रत्यादीनामङ्गणम् / प्राङ्गणम् आधार इति यावत् गुणाङ्गणम् / पुग भवति-भविष्यति / भविष्यदर्थे पुराशब्दयोगे वर्तमानाविभक्तिः / इति-अस्माद्धेतोः ! वेधसा-विधात्रा ब्रह्मणेतियावत् / अस्य-नृपस्य श्रीविश्वसेनस्य / तुष्टये-सन्तोषार्थम् / इदम्-गुणाङ्गणचिरारूपम् / कलारस्नम्-कलत्रेषु भार्यासु रत्नम् रत्नमिव सर्वश्रेष्ठम् कलत्ररत्नम् / “रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम्' इति मेदिनी / विदधेचक्रे ! कृतमिति यावत् / 72 / / सतीषु रत्नं तदशेषलक्षणे-विचक्षणैः संस्तुतमस्ति यत्पदोः / पुरा मणीवेश्म सुरीशिरोऽस्त्वतः, पदं किमस्याङ्कितमूर्ध्वरेखया // 73 // अन्वयः-अशेषलक्षणैः, सतीषु, रत्नम् , तत् , विचक्षणः, संस्तुतम् . अस्ति, यत्पदोः, पदम् , मणीवेश्म, सुरीशिरः, अस्तु, अतः, पुरा, अस्य, ( पदम् ) ऊर्ध्वरेखया, अङ्कितम् , किम // 73 // वृत्तिः-अशेषलक्षणैः-अशेषाणि समस्तानि च तानि लक्षणानि भाग्यवत्त्वादिसूचकचिह्नानि अशेषलक्षणानि तैस्तथा / "लक्षणं नाम्नि चिह्न च "इति मेदिनी। सतीषु-पतिव्रतासु, समीचीनासु वा / रत्नम्-रत्नमिव श्रेष्ठम् / तत्-अचिराख्यं कलत्रम् / विचक्षणैः-विचक्षते इति विचक्षणा विद्वांसः पण्डिता इत्यर्थस्तैस्तथा / “विद्वान् सुधीः कबिविचक्षणलब्धवर्णा" 3 / 5 // इत्यभिधानचिन्तामणिः / संस्तुतम्-सम्यक प्रशंसितम् / अस्ति-विद्यते / यत्पदो:-यस्य अचिराख्यकलवरत्नस्य पदे चरणे यत्पदे तयोस्तथा / पदम्स्थानम् / “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः / " पादतञ्चिहनयोः स्थानत्राणयोरङ्कवस्तुनोः / इति मेदिनी / मणीवेश्म-मणोनां रत्नानाम् वेश्म सदनम् मणीवेश्म / सुरीशिरः-सुराणां देवानां स्त्रियः सुर्य्यः जातावेकवचनम् / धवयोगे डोः तासां शिरो मस्तकम् सुरीशिरः / अस्तु-भवतु / अत:-अस्मात् कारणाव / पुरा-पूर्वम् / अस्य-अचिराख्यकलत्ररत्नस्य / पदम्-चरणः, वामपाद इत्यर्थः, स्त्रिया वामाङ्गप्रधानत्वाद / ऊर्ध्वरेखया-उत्कृष्टभाग्यसूचकरेखाविशेषेण / अङ्कितम्-चिह्नितम् // 73 //