________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [45 वृत्ति:-कमलप्रवालयो:-कमलं पद्मम् प्रवालो नवपछवो विद्रुमो वा कमलश्च प्रवालश्च कमलप्रवालौ तयोस्तथा / अघोविधानात-अरुणत्वस्निग्धत्वमृदुत्वैरधःकरणाव तिरस्करणात् जयादिति यावत "प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे" इति मेदिनी / स्वैः-निजैः स्वकीयैरितियावत् / “निजः पुनः / आत्मीयः स्वः स्वकीयश्च" 3 / 22 / 6 // इत्यभिधानचिन्तामणिः / मृदलैः-कोमलैः / फणागणैःफणानां सटानां गणाः समूहाः फणागणास्तैस्तथा / भुवम्-पृथिवीम् / वहन्-धारयन् / सुभोगिनाम्-सु अतिशयाश्च ते भोगिनः पन्नगाः सुभोगिनस्तेषान्तथा सकलभोगिनामितियावद “सुः पूजायां भृषार्थानुमतिकृच्छ्रसमृद्धिषु" इति मेदिनी। “स्वत्यतीव च निर्भरे" इत्यमरकोशश्च / अशेषशेष:-अशेषस्य समग्रस्य निखिलस्येति यावत् शेषोऽनुचरः अशेषशेषः / सः-प्रसिद्धः / एषः-अयम् / शेषराट-शेषोऽनन्त एव राट् राजा शेषराट् / ( इति ) इलापतिना-इलायाः पृथिव्याः पतिः स्वामी इलापतिधरणीपालः श्रीशान्तिनाथपिता श्रीविश्वसेनः तेन तथा / "भूभूमिः पृथिवी पृथ्वी"काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः" 4 // 3 // इत्यभिधानचिन्तामणिः / अहस्यत-विहस्यते स्म // 7 // प्रसादमापाद्य सुवर्णवाससां, शिरःसु दानादखिलक्षमाभुजाम् / नतैः पुनस्तैर्वसुधां प्रसाधयन, स्वयं स रेमे विषयेषु तन्मयः // 71 // अन्वयः-दानात् , सुवर्णवाससाम् , अखिलक्षमाभुजाम् , प्रसादम् , आपाध, शिरःसु नः पुनः, तैः, वसुधाम् , प्रसाधयन् , सः, स्वयम् , तन्मयः, विषयेषु, रेमे // 71 // वृत्तिः-सुवर्णवाससाम्-सुवर्णानि काञ्चनानि च वासांसि वस्त्राणि च सुवर्णवासांसि तेषान्तथा अभ्यहितत्वात सुवर्णपदस्य पूर्वनिपातः / “अंशुकं वस्त्रमम्बरम् / सिचयो वसनं चीराऽऽच्छादौ सिक् चेलवाससी". 3 / 330 // इत्यभिधानचिन्तामणिः / दानात-वितरणात् / अखिलक्षमाभुजाम्-क्षमां पृथिवीं भुञ्जन्ति पालयन्तीति क्षमाभुजो राजानः, अखिलाश्च ते क्षमाभुजः, अखिलक्षमाभुजस्तेषान्तथा / प्रसादम्प्रसन्नताम् / “प्रसादस्तु प्रसन्नता" इत्यमरः / आपाद्य-सम्पाद्य विधायेति यावत् / शिरःसु-मौलिषु / अवच्छिन्नत्वं सप्तम्यर्थः, शिरोऽवच्छेदेनेत्यर्थः / नतै:-नः। तैः-नृपतिभिः / पुनः वसुधाम्-पृथिवीम् / प्रसाधयन्-संभूषयन् नियोजयन्निति वा / सः-प्रसिद्धः नृपतिर्विश्वसेन इत्यर्थः / स्वयम्-आत्मना / तन्मयः-तल्लीनः, विषयवासनारक्त इत्यर्थः / विषयेषु–स्रकचन्दनवनितादित्वङ्मनोनयनादिनिखिलेन्द्रियार्थेषु रेमे-अरमत रत इति यावत् / / 7 / / सतीषु सत्यार्थयशस्वती स्वतः, शचीव रूपादचिरा गुणाङ्गणम् / पुरेदमूर्ध्व भवतीति वेधसा, कलत्ररत्नं विदधेऽस्य तुष्टये // 72 //