________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र रागयोः” इति मेदिनी / समयम्-कालम् / “समयाः शपथा-चारकालसिद्धान्तसंविदः" इत्यमरकोशः / नयन्-अतिवाहयन्। पटीयान्-अतिशयेन कवित्वाद्यभ्यासवान् इत्यर्थः / पटुश्चतुरः पटीयान् / अयम्असौ / श्रीविश्वसेननृपतिः / मधौ-वसन्ते / “मधुः पुष्परसे झौद्रे मधे ना तु मधुलुमे / वसन्तदैत्यभिच्चैत्रे” इति मेदिनी / कलहंसवत्-कलध्वनयो हंसाः कलहंसाः कादम्बास्तैस्तुल्यः कलहंसवद / “कादम्बास्तु कलहंसाः पक्षैः स्युरतिधूसरैः” 4 / 393 // इत्यभिधानचिन्तामणिः / केलिम्-लीलाम् / “केलिद्रवः परीहासः क्रीडा लीला च नर्म च" 3 / 216 // इत्यभिधानचिन्तामणिः / दधौ-धारयामास // 6 // ददद् धनं स्वेष्टमयं महाशयः, स्वयं कलाकेलिरसालयीभवन् / स्त्रिया चकारापरपद्मया समं, दिनेश्वरश्रीरुदयं दिने दिने // 69 // अन्वयः-वेष्टम् , धनम् , ददत् , स्वयम् , कलाकेलिरसालयीभवन् , महाशयः, अयम् , दिनेश्वरश्रीः ( सन् ) अपरपद्मया, स्त्रिया, समम् , दिने दिने, उदयम् , चकार // 0 // . वृत्तिः-स्वेष्टम्-स्वस्य आत्मन इष्टमभिमतं स्वेष्टन्तत्तथा / धनम्-वित्तम् / ददव-याचकेभ्यो वितरन् / स्वयम्-आत्मना / कलाकेलिरसालयीभवन्-कला विज्ञानश्च केलिर्लीला च कलाकेली तयो रसोऽनुरागः कलाकेलिरसः आलीयतेऽत्रेति आलयः आश्रयः न आलयः-अनालयः अनालय आलयः सम्पद्यमानः आलयीभवन् , कलाकेलिरसस्य आलयीभवन् कलाकेलिरसालयीभवन् / महाशय:-महान् विशाल आशयोऽभिप्रायो यस्य स महाशयः / "आशयः स्यादभिप्राये पनसाधारयोरपि" इति मेदिनी / अयम्-एषः / दिनेश्वरश्री:-दिनस्य दिवसस्य ईश्वरः प्रमुर्दिनेश्वरः सूर्यः, तद्वत् श्रीः शोभा यस्य स दिनेश्वरश्रीः सूर्यसमानकान्तिमानित्यर्थः / अपरपाया-अपरा द्वितीया पद्मा लक्ष्मीः अपरपद्मा तया तथा / “लक्ष्मीः पमा रमा या मा ता सा श्रीः कमलेन्दिरा" 2 // 140 // इत्यभिधानचिन्तामणिः / स्त्रिया-सहधर्मिण्या अचिराख्यया भार्यया / समम्-सह / दिनेदिन-प्रतिदिनम् / वीप्सायां द्विर्भावः / उदय:-अभ्युदयम् समुनतिमिति यावत् "उदयस्तु पुमान् पूर्वपर्वते च समुन्नतौ" इति मेदिनी / चकार-कृतवान् विदधाविति यावत् // 69 // अधोविधानात् कमलप्रवालयोः, फणागणेः स्वैर्मुदुलैर्भुवं वहन् / अहस्यतेलापतिना सुभोगिना-मशेषशेषः खलु सैष शेषराट् // 70 // अन्वय:-कमलप्रवालयोः, अधोविधानात् स्वैः, मृदुलैः, फणागणैः, भुवम् , वहन् , सुभोगिनाम् , अशेषशेषः, सा, एषा, शेषराट् , खलु, इलापतिना, अहस्यत //