________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 43 वृत्तिः-प्रभुः-प्रभवति सर्वोत्कृष्टतया भवतीति प्रमुः स्वामी जगत इतिशेषः / “शंसंस्वयंविप्राद् मुवो दुः" 5 / 2 / 84 / / इत्यनेन डुः प्रत्ययः / “पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरः विमुः" 3 / 23 // इत्यभिधानचिन्तामणिः / देवः-राजा श्रीविश्वसेन इत्यर्थः / कविना-कौति कुबतीति वा कविः / काव्यकर्ता विचक्षण इति यावत् तेन तथा "विद्वान् सुधीः कविविचक्षणलब्धवर्णाः” 3 // 5 // इत्यभिधानचिन्तामणिः / च-पुनः / “चान्वाचयसमाहारेऽप्यन्योन्यार्थे समुच्चये' इति मेदिनी / बुधेन-बुध्यते शब्दार्थतत्त्वमिति बुधो वैयाकरण: पण्डित इत्यर्थस्तेन तथा / ( सह ) तैः सहवासादिजनितयेत्यर्थः / मुदा-प्रीत्या / आनन्देनेत्यर्थः / एव-अवधारणार्थकमव्ययम् / भुवः-पृथिव्याः / नियोगिनीम्-नियन्त्रिणीम् सञ्चालिकामिति यावत् / धुरम्-भारम् / न्यस्य-संस्थाप्य ! ( स्थितः / अयम्-एषः, श्रीमान् विश्वसेन इत्यर्थः / पवित्रचेतसा-पवित्रं विशुद्धं चेतोऽन्तःकरणं यस्यां सा पवित्रचेतास्तया तथा “अन्तःकरणं मानसं मनः / हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" 6 / 5 / / इत्यभिधानचिन्तामणिः / भावनया-अन्तःकरणवृत्तिसंस्कार विशेषेण वृत्तित्वञ्च सामानाधिकरण्यसम्बन्धेनावगन्तव्यम् / यद्वा-भावना परमेश्वरविषयक ध्यानम् मुक्तिमार्गपालोचनं वा तया तथा / "भावना तु नवा ध्याने पर्यालोचेऽधिवासने" इति मेदिनी / नयान-नोती: 1 न्यायानिति यावत् / “अथ नयो नीतिधूतविशेषयो" इति मेदिनी / सर्वत्र-स्वस्मिन् स्थाने विषये वा। यथागमम्-आगमं शास्त्रमनतिक्रम्य यथागमम् “योग्यतावीप्साऽर्थानतिवृत्तिसादृश्ये" 3 / 1140 / / इत्यनेन अव्ययीभावसमासः / “आगमः शास्त्र आगतौ” इति मेदिनी / पुपोष-अपुषद पोषितवानितियावत् / कविबुधौ शुक्रशशिजौ प्रहावपि राज्यरक्षकावत्रेति व्यज्यते // 6 // निरन्तरं स्निग्धतरान्तरात्मना, तया रमण्याऽनुभवन सुखं रतेः / दधौ पटीयान् समयं नयनयं, रसेन केलिं कलहंसवद् मधौ // 6 // अन्वयः-स्निग्धतरान्तरात्मना, तया, रमण्या, निरन्तरम् , रतेः, सुखम् , अनुभवन् , रसेन, समयम् , नयन , पटीयान् , अयम् , मधौ, कलहंसवत् , केलिम् , दधौ // 0 // वृत्तिः-स्निग्धतगन्तरात्मना-अतिशयेन स्निग्धो वत्सलः, स्नेहान्वितो वा स्निग्धतरः, अन्तर्भव भान्तरः, स्निग्धतर आन्तर आत्मा स्वभावो यस्याः सा स्निग्धतरान्तरात्मा तया तथा / "स्निग्धस्तु वत्सलः" 3 / 142 / / इत्यभिधानचिन्तामणिः / “आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि" तया-प्रसिद्धया अचिराख्यया / रमण्या-कान्तया नितम्बिन्या वा / 'विशेषास्तु कान्ता भीरुनितम्बिनी / प्रमदा सुन्दरी रामा रमणी ललनाङ्गना" 3 / 166 / / इत्यभिधानचिन्तामणिः / निरन्तरम-अनवरतम् , सततमिति यावत् / रत-अनुरागस्य सुरतस्य वा / "रतिः स्त्री स्मरदारेषु रागे सुरतगुझयोः" इति मेदिनी / सुखम्-सौख्यम् / *अनुभवन्-सम्प्राप्नुवन् / रसेन-अनुरागेण / “रसो गन्धरसे जले / शृङ्गारादौ विषे बोये तिक्तादो द्रव