________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने" इत्यमरनानार्थः / मेने-मन्यते स्म / सीमन्तस्योभयभाने स्थिताः केशा न भवन्ति किन्त्वकीर्तिरेवेतिभावः // 65 // अजस्रमम्यासमुपेयुषा समं, कलत्ररत्नेन मुदाऽचिरावया / यथेच्छयाऽसौ विषयोपभोगत-श्चिराय राज्यं विदधे भुजौजसा // 66 // अन्वयः-असौ. अजस्रम् , अभ्यासम् , उपेयुषा, अचिरावया, कलत्ररत्नेन, मुदा, यथेच्छया, विषयोपभोगतः, भुजोजसा, चिराय, राज्यम् , विदधे, // 66 // वृत्तिः-असौ-अयम् भगवतः श्रीशान्तिनाथस्य पिता राजाधिराजः श्रीमान् विश्वसेन इत्यर्थः / अजस्रम्-न जस्यतीत्येवंशीलमजस्रम् ‘रम्यजस्" 5 / 279 // इत्यादिना रः प्रत्ययः / सततमित्यर्थः / "अनारतं त्वविरतं संसक्तं सततानिशे / नित्यानवरताजनासक्ताश्रान्तानि" 6107 // इत्यभिधानचिन्तामणिः / अभ्यासम्-काव्यकवनशास्त्रमननव्यसनम् / उपयुषा-समाधिगतवता प्राप्तवतेतियांवत् "अभ्याशम्" इति पाठे श्रीविश्वसेनसान्निध्यमित्यर्थः / "पार्श्व समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः / सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी” 6 / 86 // इत्यभिधानचिन्तामणिः / “सन्निधिरेव सान्निध्यम्" स्वार्थेऽण् प्रत्यय इति बोध्यम् / अचिरावया-'अचिरा" इत्याह्वा अभिधानं यस्याः सा अचिराह्वा तया तथा / "आख्या ह्वे अभिधानश्च, नामधेयञ्च नाम च' इत्यमरकोशः / कलत्ररत्नेन-कडति माद्यतीति कडत्रम् लत्वे कलत्रम् पत्नीत्यर्थः, कलत्रं रत्नमिवेति कलबरलम् “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेन समास: तेन तथा / पत्नीश्रेष्ठेनेति यावत् / “रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम्" इति मेदिनी, “पत्नी सहचरी पाणिगृहीती गृहिणी गृहा द्वितयोढा कलत्रं च" 3 / 177 / / इत्यभिधानचिन्तामणिः / मुदा-हर्षेण / संमदेनेतियावत् "मुत्पीतिः प्रमदो हर्षः प्रमोदानन्दसम्मदाः" इत्यमरकोशः / यथेच्छयायथाकामम् / विषयोपभोगत:-विषयाणां स्रक्चन्दनवनितादीनामुपभोगोविषयोपभोगस्तस्मात्तथा / भुजौजसा-भुजयोर्बाह्वोरोजो बलम् मुजोजस्तेन तथा / "ओजसदीप्राववष्टम्मे प्रकाशबलयोरपि" इति मेदिनी / चिराय-दीर्घकालम् यावद / “चिराय चिररात्राय चिरस्य च चिराच्चिरम् / चिरेण दीर्घकालेऽर्थ" 6 / 168 / / इत्यभिधानचिन्तामणिः / राज्यम्-राज्ञः कर्म राज्यम् सौराज्यामिति यावत् / विदधे-धारयामास अचिराह्वया समं चिराय कथं स्यादुपभोग इति विरोधः परिहारस्तु स्पष्ट एव // 66 // नियोगिनीं न्यस्य धुरं भुवः प्रभु-मुंदैव देवः कविना बुधेन च / यथागमं भावनया नयानयं, पुपोष सर्वत्र पवित्रचेतसा // 67 // अन्वयः-प्रमुः, देवः, कविना च बुधेन (सह) मुदा, एव, भुवः, नियोगिनीम् ,धुरम् , न्यस्य, (स्थितः) अयम्, पवित्रचेतसा, भावनया, नयान् , सर्वत्र, यथागमम् , पुपोष, // 67 //