________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्या प्रथमः सर्गः [41 बंशो मन्वन्तराणि च / वंशानुवंशचरितं पुराणं पञ्चलक्षणम्" / 2 / 166 // इत्यभिधानचिन्तामणिः / तदेववृत्तिनिबन्धः पुराणवृत्तिस्तस्यान्तथा "निबन्धवृत्ती अन्वर्थे 2 / 161 / / इत्यभिधानचिन्तामणिः / दरिद्रमुद्रणाभावप्रधानत्वाव दारिद्रय मुद्रा / न-नहि / अपहृतेतिशेषः / तेन राजा. श्रीविश्वसेनेनेत्यर्थः / तत्चोयंच-पहरणदरिद्रमुद्रणाभावैतद्वयम् / भ्रवोः नेत्रोपरिस्थितयो रोमपद्धत्योः / द्वयस्य-द्वावयवावस्येति द्वयम् द्वितयमित्यर्थः तस्य तथा / व्यपदेशलेशत:-व्यपदिश्यते इति व्यपदेशोऽतद्रूपस्य ताप्यम् छलमित्यर्थः तस्य लेशः कणो व्यपदेशलेशस्तस्मात्तथा / "कपटं केतवं दम्भः कूटं छद्मोपधिश्छलम् / व्यपदेशो मिषं लझ निभं व्याजः" 3 // 42 // इत्यभिधानचिन्तामणिः / निजायशोयुगम्-निजस्य स्वस्य अयशोऽकीर्तिर्निजायशस्तस्य युगम्-द्वयम् निजायशोयुगन्तत्तथा / निजः पुनः / आत्मीयः स्वः स्वकीयश्च" 33226 / / इत्यभिधानचिन्तामणिः / अमानि-मेने / स्वीकृतमिति यावत् i64 // यशःप्रतापानुगपुष्पदन्तयोर्मयो-र्जितेनापहृतं न दुस्तमः / तदेव मेने नृपतिः स्वदुर्यशो, द्विफालबद्धाश्चिकुराः शिरस्थितम् // 65 // अन्वयः-अर्जितेन, मया, यशःपतापानुगपुष्पदन्तयोः, दुस्तमः, न, अपहृतम् , नृपतिः, तत् , द्विफालबद्धाः, चिकुराः, एव, शिरःस्थितम् , स्वदुर्यशः, मेने, // 65 // - वृत्तिः-उर्जितेन-ऊर्ज बलं सञ्जातमस्येत्यूजितः 'तदस्य सञ्जातं तारकादिभ्य इतः" 7 / 1 / 138 / / "इत्यनेन इतः प्रत्ययः, तेन तथा सर्वविधसामर्थ्यशालिनेत्यर्थः / मया-मल्लक्षणेन जनेन / यशःप्रतापानुगपुष्पदन्तयोः-पुष्पे इव पुष्पे दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्ती, शशिभास्करो, सूर्याचन्नमसाविति यावत् "पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ" 2 / 38 // इत्यभिधान चिन्तामणिः, यद्विश्व. दत्तः-"रविशशिनौ पुष्पदन्ताख्याविति" इति तच्छला कोयाभिधानचिन्तामणि टोका / यशः कोधि पसार: प्रभावश्च यशःप्रतापौ तावनुगच्छतोऽनुसरत इति यशःप्रतापानुगौ तो च तो पुष्पदन्ती यशःप्रतापानुगपु पदन्तौ तयोस्तथा महोययशःप्रतापानुगामिनोः सूर्याचन्द्रमसोरित्यर्थः / दुस्तमः, “स्वर्भाणुस्तु विधुन्तुदः / तमो राहुःसैहिकेयो भरणीभूः" 2 / 35 / / इत्यभिधानचिन्तामणिः / न-नहि / अपहतम्-दूरोकृतमित्यर्थः / दुष्टप्रहाद्राहोः सकाशात्तौ नाभिरक्षितावितिभावः / तत-तस्मात् कारणात् यशःप्रतापानुगत्वेन स्वाप्रितयोरपि शशिभास्करयो राहोरभिरक्षणाभावादिति यावत् / नृपतिः-नृणां नराणाम् मनुष्याणामिति यावत् पतिः स्वामी नृपतिः, नरेन्द्र इत्यर्थः / “अधिपस्त्वीशो नेता परिवृढोऽधिभूः / पतीन्द्रस्वामिनाथार्याः" 322 / / इत्यभिधानचिन्तामणिः / द्विकालबद्धाः-'भ्यां फालाभ्याम् भागाभ्याम् बद्धाः संयमिता द्विफालबद्धाः / चिकुरा:-केशाः / “तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः" 3 / 231 // इत्यभिधानचिन्तामणिः / एव-अवधारणार्थकमव्ययम् / शिरःस्थितम्-शिरसि सीमन्तस्योभयभागे स्थितमवस्थितम् विराजितमिति यावत् / स्वर्यश:-दुष्टं यशो दुर्यशः, अकीर्तिरित्यर्थः, स्वस्य भास्मनो दुर्यशः स्वदुर्यशस्तत्तथा / "खो