________________ 40 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेकलङ्कितः प्रागपि सेतुकेतुना-न सिन्धुरुस्तर्गजलव्ययैर्मरुः / कृतो निवासाय महीस्पृशामतो, व्यशोषयत्तं वडवाग्निना नृपः // 63 // अन्वयः-प्राक् , सेतुकेतुना, कलंङ्कितः, अपि, सिन्धुः, उत्सर्गजलव्ययः, महीस्पृशाम्, निवासाय, मरुः, न, कृतः, अत:, नृपः, तम् , वडवाग्निना, व्यशोषयत् // 63 // ___वृत्तिः—प्राक्-पूर्वम् / सेतुकेतुना-सेतुरालिरेव केतुर्लक्ष्म उत्पातो वा सेतुकेतुस्तेन तथा / “सेतुलौ कुपारके” इति मेदिनो “केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि" इति च / “कलङ्काको लाञ्छनं च चिह्न लक्ष्म च लक्षणम्" इत्यमरकोशः / कलंकित:-कलङ्कश्चिह्नम्, अपवादो वा सञ्ज तोऽस्येति कलद्वितः” तदस्य सञ्जातं तारकदिभ्य इतः" 7 / 1 / 138 / / इत्यनेन इतः प्रत्ययः / अपि-ननु / सिन्धुः-समुद्रः / "सिन्धूदन्वन्तौ मितद्रुः समुद्रः" 4 / 136 / / इत्यभिधानचिन्तामणिः / उत्सर्गजलव्ययैः-जलानां व्यया जलव्ययाः, उत्सर्गे दाने क्रियमाणे जलव्यया उत्सर्गजलव्ययास्तैस्तथा / महीस्पृशाम्-महीं पृथिवीं स्पृशन्तीति महीस्पृशस्तेषान्तथा प्राणिनामित्यर्थः / निवासाय-निवसनहेतवे, समवस्थानायेत्यर्थः / मरु:-धन्वा, मरुप्रदेशः इत्यर्थः / 'मरुधन्वा" 4 / 6 // इत्यभिधानचिन्तामणिः / न-नहि / कृतः-विहितः / अत:-अस्माखेतोः / नृपः-राजा / श्रीविश्वसेन इत्यर्थः / तम्-सेतुकेतुना कलङ्कितम् प्रसिमिति वा / वडवाग्निनावाडवेन, वडवानलेनेतियावत् / “और्वस्तु वाडवो वडवानलः” इत्यमरकोशः / व्यशोषयत-विशोषितवान् // 63 // न चौर्यचर्यापहृतामिधानतः, पुराणवृत्तौ न दरिद्रमुद्रणा / अमानि तत्तेन निजायशोयुगं, ध्रुवोर्द्व यस्य व्यपदेशलेशतः // 64 // अन्वयः-अभिधानतः, चौर्यचर्या, न, अपहृता, पुराणवृत्ती दरिद्रमुद्रणा, न, तेन, तत्, भ्रषोः, द्वयस्य, व्यपदेशलेशतः, निजायशोयुगम् , अमानि, // 6 // घृत्तिः-अभिधानत:-अभिधीयते कथ्यतेऽनेनेत्यभिधानम् नाम, श्रीविश्वसेनेतिनामधेयम् तस्मात्तथा। "आख्याऽऽढे अभिधानश्च नामधेयश्च नाम च" इत्यमरकोशः / नाम मात्रेणेत्यर्थः / अभियानतानामतः / यथा “चौर्यचर्या" इति पदमथ कोऽपि न जानीयादित्यर्थः / चौर्यचर्या-चरणं चर्या पाचरणमित्यर्थः “समज-निव-निषद्-शीङ-सुग-विदि-चरि-मनीणः" 5 / 3 / 99 // इत्यनेन क्यप्प्रत्ययः, चौरस्य स्तेनस्य भावश्चौर्यम् तस्य चर्या चौर्यचर्या / “चौरस्तु प्रतिरोधकः / दस्युः पाटच्चरः स्तनस्तस्करः पारिपन्थिकः" ३१४५इत्यभिधानचिन्तामणिः / न-नहि / अपहता-दूरीकृता, मन्नामप्रभावादेव चौथ्यच- न विनष्टेति भावः / पुराणवृत्तौ-पुरापि न नवं पुराणम्, सर्गादिपञ्चलक्षणम् “सर्गश्च प्रतिसर्गन्ध