________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 39 अन्वयः-मम, आश्नये, कदापि, विदूरतः ( अपि ) संसारवताम् , संसारपदम् , न, भवेत् , क्षितीशेन, दारिद्रयदरिद्रताम् , प्रणीय, वनीपकः, नरा, धनी, कृतः // 61 // वृत्तिः-मम-राज्ञो विश्वसेनस्य / आश्रये-आश्रयणम् आश्रयः, संश्रयणम् सेवनमिति यावत् तस्गिस्तथा / कदापि-कस्मिंश्चित्समयेऽपि / विदरत:-विशेषण दूरं विदूरन्तस्मात्तथा / ( अपि ) संसारवताम्-संसरणं संसारः सोऽस्त्येषामिति संसारवन्तस्तेषान्तथा / संसारपदम्-संसार एव पदम् आस्पदम् स्थानमिति यावत् ससारपदम् “स्थानन्तु पदमास्पदम्" 4 / 54 // इत्यभिधानचिन्तामणिः / न-नहि भवेत्श्यात् / क्षितीशेन-क्षितेः पृथिव्या ईशः क्षितीशस्तेन तथा, राज्ञा श्रीविश्वसेनेनेति यावत् / दारिद्रयदरिद्रताम्-दरिद्रस्य भावो दारिद्रयन्तस्यैव दरिद्रताऽकिञ्चनत्वमिति दारिद्रयदरिद्रता तान्तथा। प्रणीय-सम्पाद्य / बनीपक:-वनुते याचते इति वनीपकः “कीचकपेचक" ( उणादि 33 ) इत्यादिशब्दादकान्तो निपात्यते याचक इत्यर्थः / “याचकस्तु वनीपकः" 3 / 511 // इत्यभिधानचिन्तामणिः / नर:-मानवः / धनी-धनं वित्तमस्त्यस्येति धनी "मतोऽनेकस्वराद” 7 / 2 / 6 // इत्यनेन मत्वर्थे इत्प्रत्ययः / कृत:-विहितः / दानप्राचुर्येण दारिद्रयस्यैव दरिद्रतामभावरूपतां विधाय याचकचरोऽपि जनस्तेन धनधान्यसम्पत्समन्वितः कृत एवञ्च सुखीभूतः स निराबाधं धर्म विधाय निर्वृतो भवेदथ चार्थार्थ गृहाद् गृहमपि संसरणं न कुर्यादिति भावः // 61 // विभज्य मेरुन यदर्थिसात्कृतो,मया रयाद् दिग्विजयान्तरायकृत् / इतीव विज्ञप्य विधौ महोदधौ, निमज्जयामास गिरिगिरि दिवः // 62 // अन्वयः- यत्, मया, रयात्, दिग्विजयान्तरायकृत् , मेरुः, विभज्य, अर्थिसात् , न कृतः, . . इतीव, विधौ, विज्ञप्य, गिरिः, दिवा, गिरिम् , महोदधौ, निमज्जयामास // 63 // . वृत्तिः-यत्-यस्मात्कारणात् / ‘हेतौ यत्तद्यतस्ततः” 6 / 173 / / इत्यभिधानचिन्तामणिः / मयामल्लक्षणेनापि वदान्येन / रयात-वेगात् / "रहस्तरसी तु रयः स्यदः" इत्यमरकोशः / दिग्विजयान्तरायकृतदिक्षु दिशासु विजयो दिग्विजयस्तत्र अन्तरायो विघ्नो दिग्विजयान्तरायस्तं करोतीति दिग्विजयान्तरायकृत् / मेरु:-सुमेरुपर्वतः / विभज्य-खण्डशो विधाय / अर्थिसात-याचकयत्तः, अर्थ्यधीनो देयो वा ! न-नहि / कृत:-विहितः / इतीव-इत्येवं खलु / विधौ-ब्रह्मणि विधातरीति यावत् / “विधिर्ना नियतौ काले विधाने परमेष्ठिनि" इति मेदिनी / विज्ञप्य-विनिवेद्य / गिरि:-पूज्यः, श्रीविश्वसेन इति यावद, "गिरिः पूज्येऽभिरुजि कन्दुके शैले गैरेयके गीर्णावपि" इत्यनेकार्थः / दिव:-स्वर्गस्य / 'स्वर्गस्त्रिविष्टपं चोदिवौ" 2 / 1 / / इत्यभिधानचिन्तामणिः / गिरिम्-पर्वतम् / स्वर्गसम्बन्धिपर्वतम् रत्नसानुमिति यावत् / महोदधौ-महांश्वासावुदधिः समुद्रो महोदधिस्वस्मिस्तथा / निमज्जयामास-न्यमन्जयत् / / 62 //