________________ 38] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेमन्यते कथयति वा / कराव-स्वहस्ताद / “पञ्चशास्त्रः शयः शमः / हस्तः पाणिः करः" / 32255 / / इत्यभिधानचिन्तामणिः / करे-निर्धनस्य हस्ते / अर्थम्-धनम् / 'अर्थो विषयार्थनयोधनकारणवस्तुषु / इति मेदिनी। निदधत्-स्थापयन् / स्वतन्त्रधी:-स्वतन्त्राऽपरतन्त्रा धीर्बुद्धिर्यस्य स स्वतन्त्रधीः / नृपः-राजा श्रीविश्वसेनः / तन्मतिम्-तस्य ललाटेऽर्थितालिपि - मन्यमानस्य पण्डितस्य मतिर्बुद्धिस्तन्मतिस्तान्तथा / "मतिर्मनीषा बुद्धि/र्धिषणा बप्तिचेतना" 2 / 222 / / इत्यभिधानचिन्तामणिः / अपि-खलु / अवधीयंअवगणय्य, अवमान्येति यावत् / स्वमतम्-स्वस्य-निजस्य मतं सम्मतम् सिद्धान्तमिति यावत् स्वमतम् तत्तथा, "मतं तु सम्मते ज्ञाते" इति मेदिनी / दृढीचकार-सुस्थिरोकृतवान् / / 9 / / अलीकवृत्तेस्तदलीकवृत्तिता, नृपोऽर्थिनामक्षरसंततेस्ततः / . मृषा न चक्रेऽल्पितकल्पपादपः, स धातुधार्थविपर्ययादिव // 60 // . अन्वयः-ततः, अल्पितकल्पपादपः, सः नृपः, धातुधार्थिविपर्ययात् इव, अर्थिनाम् , अलीकवृत्तेः, अक्षरसंततेः, तदलीकवृत्तिताम् , मृषा, न, चक्रे // 6 // वृत्तिः-तत:-पूर्वोक्तदानप्राचुर्यवर्णनाद्धेतोः / अन्पितकल्पपादप:-अल्पितोऽल्पीकृतः कल्पपादपः कल्पवृक्षो येन सोऽल्पितकल्पपादपः पराजितकल्पवृक्ष इति यावत् / स:-प्रसिद्धः / नृपः-राजा, श्रीविश्वसेनः / धातुधार्यार्थविपर्ययात्-धातुना अर्थधातुना धार्यः धरितुं योग्यः धातुधार्दाः स चासो अर्थोऽभिधेयः धातुधार्यार्थः, अर्थवावार्यया वनरूमोऽर्थः, तस्य विर्य यो वैरोयम् अपाचनमित्यर्थः धातुधार्यार्थविपर्ययस्तस्मात्तथा / अथवा धातुना रूप्यकादिना धायः करगोयो धातुधायः, अर्थस्य यात्रा. रूपस्य विपर्ययोऽर्थविषय्यः, धातुधार्यच सावविश्ययो धातुधार्या विपर्ययस्तस्मा तथा इव यथेत्येव. मर्थोऽप्यवसेयः / यद्वा-"अयं दरिद्रो भविता" इत्यत्र धातुधार्यस्य दारिद्रयभवनरूपस्यार्थस्य विपर्ययो धातुधाऱ्यार्थविपर्ययो दारिद्रयस्य अभवनमित्येवंरूपस्तस्मात्तथेवेति / इव-यथा / अविनाम्-याच कानाम् / अलीकवृत्त:- अल्यते भूष्यते तिलकादिभिरित्यलोकं ललाटम्। तत्र वृत्तिर्वर्तनमवस्थानं यस्याः साऽलोकवृत्तिस्तस्यास्तथा / "भाले गोलिकालीकललाटानि" 3 / 237 / इत्यभिधानचिन्तामणिः / अक्षरसंतते:-अक्षराणां वर्णानां संततिविस्तरोऽक्षरसंततिस्तस्यास्तथा / तदलीकवृत्तिताम्-तत्र भालेऽलीकमसत्यं वृत्तिवर्तनं स्थितिरिति यावत् तदलीकवृत्तिस्तस्याभावस्तबलीकवृत्तिता तान्तथा / "अलोकमप्रियेऽपि स्याद् दिव्यसत्ये नपुंसकम्" इति मेदिनी / मृषा-मिथ्या / न-नहि / चक्रे-कृतवान् // 6 // भवेन्न संसारपदं ममाश्रये, कदापि संसारवतां विदूरतः / कृतः क्षितीशेन धनी वनीपकः, प्रणीय दारिद्रयदरिद्रतां नरः // 61 //