________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 37 अयं दरिद्रो भवितेति वैधसी, क्रियां परामृश्य विशिष्य जापतः / विधेः प्रसत्या स्ववदान्यताकृते, नृपः सदार्थी भवितेत्यलीलिखत् // 58 // अन्वयः- "अयम्, दरिद्रः, भविता", इति, वैधसीम्, क्रियाम्, विशिष्य, जापतः, परामृश्य, विधेः, प्रसत्या, स्ववदान्यताकृते, नृपः, "सदा, अर्थो, भविता", इति, अलीलिखत् // 58 // वृत्तिः-अयम्-सन्निकृष्टतया दृश्यमानो जनः / “इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्" इत्याथभियुक्तोक्तेः / दरिद्रः-दरिद्राति दुर्गतिमधिगच्छतीति दरिद्रः, दुर्विधः, अकिञ्चन इति यावत् / दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ / अकिञ्चनः" 3 / 22 / / इत्यभिधानचिन्तामणिः / भविता-भविष्यति / इति-इत्येवंप्रकारेण / वैधसीम्-वेधसो बह्मण इयं वेधसी तान्तथा / विधिसम्बन्धिनीमित्यर्थः। क्रियाम्भाग्यरेखासूचनव्यापारम् / विशिष्य-विशेषतः / जापतः-इष्टमन्त्रादिजपक्रियातः / परामृश्य-सम्यगालोच्य / विधे:-बह्मणः / प्रसत्या प्रसादेन, प्रसन्नतयेति यावत् / स्ववदान्यताकृते-स्वस्य आत्मनो बदान्यता दानशीलता स्ववदान्यता, तस्याः कृते स्ववदान्यताकृते / “दानशीलः स वदान्यो वदन्योऽपि" 3 // 15 // इत्यभिधानचिन्तामणिः नृपः-नन् जनान् पाति रक्षतीति नृपो राजा, श्रीविश्वसेन इति यावत् / सदासर्वदा / अर्थी-अर्थी धनमस्त्यस्येत्यर्थी धनवान् / भविता-भविष्यात, "अर्थी विषयार्थनयोधनकारणवस्तुषु / अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी / इति-इत्येवंप्रकारेण / अलोलिखत्-विलि: खितवान् // 8 // करात् करेऽथं निदधन नृपोऽर्थिता-लिपि ललाटेऽर्थिजनस्य जाग्रतीम् / वदेत् सुधीर्योऽप्यवधीय॑ तन्मति, दृढीचकार स्वमत स्वतन्त्रधीः // 59 // अन्वयः-अर्थिजनस्य, ललाटे, जाग्रतीम् , अर्थितालिपिम् , यः, सुधीः, वदेत् , करात्, करे, भर्थम् , निदधत् , स्वतन्त्रधीः, नृपः, तन्मतिम् , अपि, अवधीर्य, स्वमतम् , दृढीचकार // 19 // वृत्तिः-अर्थिजनस्य-अर्थोऽर्थनम् याचनमिति यावदस्त्यस्येत्यर्थी याचकः, स चासौ जनो लोकोऽर्थिजनः तस्य तथा / "अर्थी पुमान् याचके स्यात् सेवके च विवादिनि" 'अर्थो विषयार्थनयोः', इत्युभयत्र मेदिनी / "लोको जनः प्रजा" 316 // इत्यभिधानचिन्तामणिः / ललाटे-भाले, भालस्थले इति यावत् "भाले गोध्यलिकालोकललाटानि" 3 / 238 // इत्यभिधानचिन्तामणिः / जाप्रतीम-विलसन्तीम्, अवस्थितामिति यावत् / अर्थितालिपिम्-अर्थिताया याचनस्य बोधिकाऽर्थिताबोधिका सा चासो लिपिरथितालिपिस्तान्तथा / अर्थिताबोधकवर्णविन्यासमिति यावत् / य:-यः कश्चित् / सुधी:-सु-शोभना धीर्बुद्धिर्यस्य स तथा / वदेव-कथयेव / ललाटे दृश्यमानेयं रेखा न किन्तु जाप्रती अर्थितालिपिरियमित्येवं यः पण्डितो