________________ 36 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे इति मेदिनी / तापयते-सन्तापयति / ( तदा-तस्मिन् समये ) अवशी-स्वतन्त्रः / स्मृतावधिः-स्मृतःस्मरणविषयीकृतोवधिरवधिज्ञानं येन स तथा / विधिः-विधाता / भानो:-सूर्यस्य / अंहसा-पापेन / "दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम्” 6 / 16 // इत्यभिधानचिन्तामणिः / परिवेषकैतवाद-परिवेषस्य परिधेः कैतवं छलं परिवेषकैतवन्तस्मात्तथा / "मण्डलं तूपसूर्यकम् / परिधिः परिवेषश्च" 2 / 15 // "कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम्" 3/42 / / इत्यभिधानचिन्तामणिः / तन्मइसा-तस्य रासो विश्वसेनस्य महस्तेजः तन्महस्तेन तथा / "मह उत्सवतेजसोः' / इति मेदिनी / निवन्धनम्-बन्धनम् / नेरुपसर्गस्यार्थोऽविवक्षितः / भानोरेवेति शेषः / तनोति-विस्तारयति, करोतीतियावत् // 56 // भृशं यशःस्पर्धितया, तथाऽऽख्यया,-प्यधिक्रुधाऽऽ कृष्टभरूपरूप्यकः। रुरुत्सुरुच्छृङ्खलतां करोत्ययं, तदा विधिः कुण्डलनां विधोरपि // 57 // . अन्वयः-तथाऽऽख्यया, अपि, भृशम् , यशःस्पर्धितया, अधिक्रुधा, आकृष्टभरूपरूप्यका, उच्छृङ्खलताम् , रुरुत्सुः, अयम् , विधिः, तदा, विधोः, अपि, कुण्डलनाम् , करोति // 17 // वृत्तिः-तथाऽऽख्यया-तथानाम्ना, "गोत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नाम च 2 / 174 / / इत्यभिधानचिन्तामणिः / अपि-सम्भावनायाम् / 'अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये” इति मेदिनी। श्रीविश्वसेनो राजा, चन्द्रोऽपि नाम्ना राजा, अतः समाननाम्नाऽपि / राजा प्रभौ च नृपतौ क्षत्रिवे रजनीपतौ” इति मेदिनी / रजनीपतिश्चन्द्र एवेति / भृशम्-अतिशयेन / यशःस्पर्धितया-यशः कीर्ति स्पर्धते तच्छीलमस्त्यस्येति यशःस्पर्धी "अजातेः शीले" 5 / 1 / 154 // इत्यनेन ताच्छील्ये णिन् प्रत्ययः, तस्व भावो यशःस्पर्धिता, तया तथा, यशःस्पर्धयेति भावः / प्रकृतिजन्यबोधे प्रकारीमूतस्यैव भावप्रत्ययार्थत्वात् / चन्द्रस्येति शेषः / अतिक्रधा-अतिशयकोधेन / क्रोधो मन्युः कृधा रुषः / कुत् कोपः प्रतिघो रोषो रुट च 2 / 213 // इत्यभिधानचिन्तामणिः / आकृष्टभरूपरूप्यक:-आकृष्टाः-अपहृताः बलाद्धृता इति यावद भरूपाः नक्षत्रात्मका रूप्यका येन स तथा / अन्योऽपि क्रुद्धः सन् पूर्व समर्पितं वस्तु गृहाति, तथा विधिः पूर्व चन्द्रमसे नमत्ररूपरूप्यकान् दत्तवानासीदधुना राजराजस्य श्री विश्वसेनस्य यशःस्पर्धितया तस्मै कुप्यम् पुनस्ततो नक्षत्रात्मकरूप्यकानाकर्षतीति युक्तमेव / उच्छलताम्-उद्गता शृङ्खला यतः स उच्छृङ्गलस्तस्त्र भाव उच्छृङ्खलता तान्तथा / रुरुत्सुः-रोद्धमवरोद्भुमिच्छतोति रुरुत्सुः, निवारितुकाम इति यावत् / अयम्एषः / विधि:-विधाता ब्रह्मेति यावत् / तदा-विधोरौद्धत्यस्य परिहारकाले / विधो:-चन्द्रस्य / कुण्डलनाम्-वैयर्यसूचकं रेखाविशेषम् / करोति-विदधाति / वृथालिखितग्रन्थस्य कुण्डलनया यथा लोपः क्रियते तथा विधिरपि श्रीविश्वसेनस्य स्थितौ वृथा प्रयोजनस्य चन्द्रस्य लोपं विधत्ते इति भावः / “कुण्डलनम्" इति यथामुद्रितपाठेऽपि न कश्चिदर्थे तात्पर्ये वा भेद इति बोध्यम् // 57 //