________________ 34 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अमुक्ताः, अमुक्ताः शूरा भटाः वीरा इतियायद् येन स अमुक्तशूरः "शूरः स्याद् यादवे भटे" इति मेदिनी। अपि-खलु / मुक्तधीरधीः-मुक्तमित्यत्र भावे क्तप्रत्ययः, तथा च मुक्तपदस्य मुक्तिरित्यर्थः / एवञ्च मुक्ते मुक्ती धीरा प्रवणा धीवुद्धिर्यस्य स मुक्तधीरधीः "धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुडकुमे / स्त्रियां प्रवणतुल्यायाम्” इति मेदिनी / चार हक्-चरन्ति गुप्तवेषेण वसुधामटन्तीति चराः, चरा एव चाराः स्वार्थिकोऽणप्रत्ययः गूढचरा इत्यर्थः, त एव दृक् दृष्टिनयनमिति यावत् यस्य स चारदृक् / अपि-खलु / विचारदृक्-विगता चारा एव दृग्यस्य स विचारदृक् न केवलं चारचक्षूरपितु स्वयमपि सर्वराज्यतन्त्रवेत्तेतिभावः। विचारं पश्यतीति विचारदृग्वा "चारैः पश्यन्ति राजानः" इति एतेन शास्त्रमर्मदर्शित्वं शत्रुजित्त्वं तेजस्वित्वञ्च दर्शितम् , विजिगीषुत्वञ्च द्योतितम् 'अरिमित्रमरेमित्रं मित्रमित्रमितः परम् / तथाऽरिमित्रमित्रन्न विजिगीषोः पुरःसराः / पाणिग्राहस्ततः पश्चादास्कंदस्तदनन्तरम् / आसारावनयोश्चैव विजिगीषोश्च पृष्ठतः / अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः / अनुग्रहे संहतानां व्यस्तानाश्च वधे प्रमुः" / इति द्वादशराजमण्डली, यस्य चारा दृक् तस्य विचाराः चारविरुद्धाः कथं दृगिति विरोधः, परीहारस्तु दर्शितदिशा . द्रष्टव्यः // 53 // तदोजसस्तद्यशसः स्थिताविमौ, जगतकृताऽऽगृहय नियोजितौ हरी। सुरासुरेशौ तदसारभावतः, समीरनुन्नौ दिवि वा गतौ भुवि // 54 // अन्वयः-तदोजसः; तद्यशसः, स्थितो, जगत्कृता, ता, आगृह्य, इमो, हरी, नियोजितो, तत् असारभावतः, सुरासुरेशी, समीरनुन्नौ, (सन्तौ) दिवि, वा, भुवि, गतौ // 54 // वृत्तिः-तदोजसः-तस्य श्रीविश्वसेनस्य ओजो बलम् तेज इति यावत् तदोजस्तस्य तथा, श्रीविश्वसेनप्रतापस्येति यावत् / तद्यशसः-तस्य श्रीविश्वसेनस्य यशः कीर्तिस्तद्यशस्तस्य तथा / स्थितोअवस्थितौ / सत्यामितिशेषः / जगत्कृता-जगत् संसारं करोति विदधाति विरचयतीति यावद् जगत्कृत "किप्" 5 / 1 / 148 // इत्यनेन क्किप् प्रत्ययः, तेन तथा विधात्रा ब्रह्मणेति यावत् / आगृह्य-आ सर्वतोभावेन तेजः पदार्थ गृहीत्वेत्यर्थः / इमौ-सनिकृष्टाविव दृश्यमानौ / “इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदोरूपम्" इत्याभियुक्तोक्तेः / हरी-सूर्याचन्द्रमसौ / “हरिश्चन्द्रार्कवाताऽश्वशुकभेकयमाहिषु" / इति मेदिनी / नियोजितौ-नियुक्तीकृतौ / तत्-तस्माद्धेतोः / “हेतौ यत्तद्यतस्ततः” 6 / 173 / / इत्यभिधानचिन्तामणिः / असारभावतः-सारो बलम् न सारोऽसारस्तस्य भावोऽसारभावस्तस्मात्तथा बलराहित्येनेत्यर्थः / “सारो बले स्थिरांशे च, मज्निनपुंसि जले धने / न्याय्ये क्लीबं त्रिषु वरे" / इति मेदिनी / सुरासुरेशी-सुरा देवाश्च असुरा दैत्याश्च सुरासुराः, तेषामीशौ प्रभू सुरासुरेशौ "द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकममिसम्बद्ध्यते इति नियमाव सुरेशः, अशुरेशश्चेत्यर्थः / समीरनुन्नौ-समीरेण वायुना नुन्नौ प्रक्षिप्तौ समोर