________________ -आचार्यविजयामृतसूरीधरहतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 33 अबलानुरागवान-न पलं येषान्ते अबला दुर्बलास्तेषामनुरागः स्नेहः प्रेमेति यावत अबलानुरागः, सोऽस्त्यस्येति अबलानुरागवान् "अतोऽनेकस्वराद" 7 / 2 / 6 // इत्यनेन मत्वर्थे मतप्रत्ययः / आर्तभयोपशान्तये बलबानित्यर्थः. अबलायां रमण्याम वनितायामिति यावत् अनुरागोऽबलानुरागस्तद्वान् वा तथा "बी नारी बनिता बघू. / वशा सीमन्तिनी वामा वर्णिनी महिलाऽबला / 3 / 168 / / इत्यभिधानचिन्तामणिः / कृतासुकम्प:-कृता विहिता अनुकम्पा दया येन स कृतानुकम्प:-"अथ दया शूकः कारुण्यं करुणा घृणा / कृपाऽनुकम्पानुक्रोशः” 3 / 33 / / इत्यभिधानचिन्तामणिः / अपि-खलु / अननुकम्पशासन:-अनु पश्चात कम्पते इत्यनुकम्पम् अस्थिरमित्यर्थः / न अनुकम्पमननुकम्पम्, अननुकम्पम् शासनम् अनुशासनम् साम्राज्यमिति यावत् यस्य सोऽननुकम्पशासनः / समयोचितदानशीलतया षाड्गुण्यप्रयोगेण शासनस्य व्यवस्थिततया सुस्थिरसाम्राज्यशालीतियावत् / लसत्प्रभावः-लसन् विलसन् शोभमान इति यावत् प्रभावस्तेजः प्रतापो वा अन्य स लसत्प्रभावः ‘यत्कोशदण्डनं तेज: स प्रभावः प्रतापवत्" 3 / 104 // इत्यभिधानचिन्तामणिः / मपि-खलु / अनलसत्प्रभाववान्-अनलसन् आलस्यमप्राप्नुवन् स्फूर्तिमानिति यावत् प्रभावो यस्य सोऽनअसत्प्रभाववान्; अनलोऽग्निरिव सन् समीचीनः प्रभावस्तेजो यस्य सोऽनलसत्प्रभाववानिति वा / (अतः) अमित्रजित-अमित्रान् प्रतिपक्षान् जयतीति अमित्रजित्-तादृशः (अपि) / ओजसा-बलेन तेजसा सामर्थ्यनेति यावत् / मित्रजित-मित्रं सूर्य जयतीति मित्र जित्, विरोधाभासालङ्कारः, विरुद्धमिव भासेत विरोधोऽसौ' इति साहित्यदर्पणः / आपाततो विरुद्धार्थावभासनम् "विरोधाभासः" इत्यर्थः / यः अमित्रजिव स मित्रनिव, कथम् असुहृदं यो जयति स सूर्य कथं जयतीति विरोधः, परिहारस्तु पूर्वव्याख्यानादवसे यः / / 52 / / क्षितीश्वरोऽप्यक्षितिभृद्धने जने-अनेन मुक्तोऽपि जनेन संहितः / अमुक्तशरोऽपि स मुक्तधीरधो-विचारदृक् चारदृगप्यवर्तत // 53 // अन्वयः-सा, क्षितीश्वरः, अपि, धने, जने, अक्षितिमृत् , अजमेन, मुक्तः, अपि, जनेन, संहिता, अमुक्तशूरः, अपि, मुक्तधीरधीः, चारहक् अपि, विचारहक् , अवर्तत // 53 // वृत्तिः सः-शान्तिनाथपिता, श्रीविश्वसेनः / क्षितीश्वर:-क्षितेः पृथिव्या ईश्वरः प्रमुः क्षितीश्वरः, "मूर्भूमिः पृथिवी पृथ्वी...क्षितिः क्षोणी क्षमाऽनन्ता" 4 // 3 // इत्यभिधानचिन्तामणिः / अपि-खलु। धनेअर्थे, वित्ते इति यावत् "धनं तु गोधने वित्ते” “अर्थो विषयार्थनयोधन कारणवत्तु" इत्युपपत्र मेदिनी / बने-लोके "प्रजायां वा लोको जनः प्रजा" 3 / 16 / / इत्यभिधानचिन्तामणिः / धने जने इत्युभयत्र सप्तम्यर्थो विषयत्वम् अयं भावः-सप्तमी त्रिविधा नैमित्तिकी वैषयिका अभिव्यापिका च, तास्वत्र वैषयिका बोध्या, धनविषये जनविषये चेत्यर्थः / अक्षितिभृत-क्षितिः भयोऽपचय इति यावत् क्षितिनिवासे मेदिन्यां कालमेदे क्षये स्त्रियाम्" इति मेदिनी / न क्षितिरमितिः, तां विभर्ति धाग्यतीति अक्षितिभृत्, धनजनविषये परिपूर्ण इति भावः / बञ्जनेन-कन्जलेन / “अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने" इति मेदिनी / एक:-रहितः / अपि-बलु / जनेन-लोकेन प्रजया वा। संहिता-सहितः / अमुक्तश:-न मुक्तान्त्यक्ता