________________ 32] श्रीजननषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र इत्यभिधानचिन्तामणिः / बभूविरे-जाताः / ऋतवः परस्परगुणानुगुण्येन नृपति श्रीविश्वसेनमानन्दातिशयं प्रापयामासुरिति भावः // 50 // मिथः सुरैरप्यसुरैर्भयातुरै-विरुध्धधमैरपि भेतृतोज्झिता / मणीगणच्छायमिहातपेऽप्यदो, विरोचते चैकपदे दिवि द्युतेः // 51 // अन्वयः-भयातुरैः, सुरैः, असुरैः, अपि, विरुद्धधर्मंः, अपि, मिथः, भेतृता, उज्झिता, च, इह, आतपे, अपि, अदः, मणीगणच्छायम् , द्युतेः, एकपदे, दिवि, विरोचते // 51 // वृत्तिः-भयातुरैः-भयेन भीत्या आतुरा विह्वला कातरा इति यावत् , भयातुरास्तैस्तथा / "भय भीéतिरातङ्क आशङ्का साध्वसं दरः" 2 / 215 // सुरैः-देवैः / असुरैः-सुरविरुद्धदैर्त्यदानवैः / अपिसमुच्चये / 'अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये” इति मेदिनी / विरुद्धधर्में:-विरुद्धः प्रतिकूलः धर्मोः स्वभावः कृत्यमिति यावद्, येषान्ते विरुद्धधर्मास्तैस्तथा / मिथः-परस्परम् / भेत्ता-उपजापकारित्वम भेद इति यावत् / उन्मिता-त्यक्ता / स्वाभाविकं वैरमपि विमुच्य समानभावमापन्नाः सञ्जाता इति भावः / च-पुनः / इह-नृपस्य राजधानीभूते हस्तिनापुरे / आतपे-दिवाकराऽऽलाके / "प्रकाशस्तेज उद्यात आलोको वर्च आतपः 2 / 15 / / इत्यभिधानचिन्तामणिः / अपि-सम्भावनायाम् / अद:-किश्चि द्विप्रकृष्टदृश्यमानम् / "अदसस्तु विप्रकृष्टे" इत्यभियुक्तोक्तेः / मणोगणच्छायम्-मणोनां रत्नानां गगः समूहो मणोगणस्तस्य छाया कान्तिः मणीगणच्छायम् / “रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम्" इति मेदिनो / यत:-विभातः, छवेरिति यावत् / “पाददोधितिकरयुतिधुवो रुविरोककिरणविषित्विषः / भा:प्रभावसुगभस्तिभानवा, भा मयूखमहसी छविविभा" 2 / 14 // इत्यभिधानचिन्तामणिः / एकपदे-सद्यः तत्क्षण इति यावत् / दिविआकाशे / “विहाय आकाशमनन्तपुष्करः / खं द्यो दिवो विष्णुपदं वियत्रभ." २१७७इत्यभिधानचिन्तामणिः / विरोचते-योतते // 51 // बलानुषक्तोऽव्यबलानुरागवान, कृतानुकम्पोऽननुकम्पशासनः / अमित्रजिन्मित्रजिदोजसा स य-ल्लसत्प्रभावोऽनलसत्प्रभाववान् // 52 // अन्वयः-सः, यत् , बलानुषक्तः, अपि, अबलानुरागवान, कृतानुकम्पः, अपि, अननुकम्पशासनः, लसत्प्रभावः, अपि, अनलसत्प्रभाववान् , (अत:) अमित्रजित् , (अपि) ओजसा, मित्रजित् // 52 // वृत्तिः-स:-प्रसिद्धः, श्रीविश्वसेन इत्यर्थः / यत-यस्माद्धेतोः / बलानुषक्त:-बलेन सारेण शक्तयेत्यर्थः, सामर्थ्यविशेषेणेति यावत् अनुषक्तः, सम्बद्धः समन्वित इति यावत् बलानुषक्तः / “सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने / न्याय्ये लीवं त्रिषु वरे" इति मेदिनी / अपि-सम्भावनायाम् /