________________ 28 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः-विनाशनम्-विध्वंसनम् / केवलम्-कृत्स्नम् सर्वस्वं विहायेत्यर्थः / बाशनम्-पलायनम्, राजसिंहासनाद् दूरीकरणमिति यावत् / एव-निर्धारणार्थकमव्ययम् / वा-पादपूरणे / 'वा स्याद्विकल्पो. पमयोर्वितर्के पादपूरणे / समुच्चये च विनम्मे नानार्थातीतयोपि' इति मेदिनी / पुन:-किश्चेत्यर्थः / कुशासनम्-कोः पृथिव्याः शासनम्-अनुशासनम् कुशासनम् / 'भूभूमिः पृथिवी पृथ्वी "ज्या कुर्वसुमतीमही" 4 / 2 / / इत्यभिधानचिन्तामणिः / कुशासनम्-कु-कुत्सित शासनं कुशासनम् यद्वा कुशस्य तृणस्य मासनम् / न-नहि / तस्य-श्री विश्वसेनस्य / नृपस्य-राज्ञः / अनन्यविश्रमाः-न अन्यमा प्रज्ञापालनादिरूपशासनादन्यत्र विश्रम आरामो येषान्ते तथा / अभी-अदश्शब्दवाच्याः / श्रमा:-परिश्रमाः। विद्विषःशत्रन् / न-नहि / तत्यजु:-जहुः, त्यक्त्वन्त इत्यर्थः / यद्वा-तस्य नृपस्य, अनन्यविश्रमाः, अमी, विद्विषः, नूनम्, अमान्-पराजयजनिताऽऽयासान् / न. तत्यजुः, "इत्येवमन्वयः करणीयः, पूर्वकल्पे अनन्यविश्रमाः इत्यत्र प्रमाणामन्यपदार्थतया तत्र च विश्रमादि-.. चेतनधर्माणामसम्भवाद् द्वितीयः कल्प आश्रित इति बोध्यम् // 44 // हृदि भ्रमो नो भुवि विभ्रमाः श्रवः-पुटेऽ पटुत्वे न तथा ध्वनिग्रहाः ! बभूवुरन्यत्तिमिरेण साञ्जनाः, प्रतीपभूपालमृगीदृशां दृशः // 45 // अन्वयः-हृदि, भ्रमाः, भुवि, विभ्रमाः, नो, श्रवःपुटे, अपदुत्वे तथा ध्वनिग्रहाः, न, अयक्तिमिरेण, प्रतीपभूपाल मृदृशाम् , दृशः, साञ्जनाः बभूवुः // 45 // वृत्तिः-हृदि-हृदये / मानसे इति यावत् / “अन्तःकरणं मानसं मनः / हृच्चेतो हृदयं स्वान्त चित्तं गूढपथोच्चले" 65 // इत्यभिधानचिन्तामणिः / भ्रमा:-आक्रमणजनितभीत्या पराजयादिजनितशोकेन च भ्रान्तयः / “भ्रमोऽम्बुनिर्गमे भ्रान्तौ” इति मेदिनी / भुवि-पृथिव्याम् / विभ्रमा:-विलासाः / नोनहि / प्रतिपक्षराजरमणीनामिति शेषः / लीला विलासो विच्छित्तिर्बिब्बोकः किलिकिश्चितम् / मोहायितं कुट्टमितं ललितं विहृतं तथा / विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश 1 / 3 / 162 // 'अभावे बननो नहि' 6 / 175 // इत्युभयत्राभिधानचिन्तामणिः / श्रवःपुटे-श्रवसोः कर्णयोः पुटम् अवःपुटम् तस्मिंस्तथा, कर्णविवरे इति यावत् "श्रुतौ श्रवः / शब्दाधिष्ठानपैञ्जषमहानादध्वनिग्रहाः / कर्णः श्रोत्रः श्रवणं च 3 / 236 / / इत्यभिधानचिन्तामणिः / पटुः-स्वविषयप्रहणसमर्थः, न पटुरपटुस्तस्य भावोऽपटुत्वन्तस्मिन्नपटुत्वे / तथायथा पूर्व तथा, पूर्ववदितियावत् / ध्वनिग्रहा:-ध्वनीनाम् अस्फुटशब्दानामपि ग्रहाः प्रहणानि ध्वनिप्रहाः / न-नहि / अन्यत्तिमिरेण-धूल्यादिजात-स्वाभाविकान्यान्धकारेण / तमिस्त्रं तिमिरं तमः / ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः" 2 / 59 // इत्यभिधानचिन्तामणिः / समासे अन्यशब्दस्य दान्तादेविधायकयोः “अषष्ठीतृतीयादम्याद् दोऽर्थे” 3 / 2 / 119 // "आशीराशाऽऽस्थिताऽऽस्थोत्सुकोतिरागे" 3 / 2 / 120 / / इत्यनयोयोस्तिमिरशब्दे उत्तरपदेऽप्राध्या "अन्यत्तिमिरेण" इति प्रयोगश्चिन्यः सुधीभिरिति / प्रतीपभूपाल