________________ -पाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः मृगीदृशाम-मृगीणां हरिणानां दृशौ नयने मृगीदृशौ ते इव दृशौ नयने यासान्ता मृगीदृशः, मृगनयना रमण्यः, प्रतीपा प्रतिकूलाः इतियावत् विरुद्धा ते भूपालाः प्रतीपभूपालास्तेषां मृगीदृशः प्रतीपभूपालमृगी. दृशस्तासान्तथा / 'प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् / वामं प्रसव्यं प्रतीपं प्रतिलोममपष्ठु च” 6 / 101 // इत्यभिधानचिन्तामणिः / दृश:-नेत्राणि / "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दृक् च" 33239 / / इत्यभिधानचिन्तामणिः / साञ्जना:-अञ्जनेन कञ्जलेन सहिताः साञ्जनाः।" "अञ्जनं कज्जले चाक्तो सौवीरे च रसाञ्जने" इति मेदिनी / बभूवुः-अभूबन सञ्जाता इति यावत् // 45 // सितांशुवर्णैर्वयति स्म तद्गुणै-यशोऽम्बरं त्वम्बरभागवाससे / तदीयजाड्यक्षतये महीशितुः, प्रतापवह्नि विधिना विधिय॑घात् // 46 // अन्वयः-तु, अम्बरभाक् , अवाससे, सितांशुवर्णैः, तद्गुणैः, यशोऽम्बरम् , वयति रुम, तदीय जाव्यक्षतये, विधिः, विधिना, महीशितुः प्रतापवह्निम् व्यघात् // 46 // वृत्तिः–तु-पादपूरणे, प्रशंसायां वा / "तु पादपूरणे भेदे समुच्चयेऽवधारणे" इति मेदिनी / अम्बरमाक-अम्बरमाकाशं भजते सेवते आश्रयतीति यावद् अम्बरभाक् देवः, अम्बरं वनं भजते इत्य: म्बरभाक् सवस्त्रो जनः / 'अम्बरं न द्वयोर्कोम्नि सुगन्ध्यन्तरवस्त्रयोः" इति मेदिनी / अवाससे-न वासो वस्त्रं यस्य सोऽवासारतस्मै तथा / "अंशुकं वस्त्रमबरम् / सिचयो वसनं चीराऽऽच्छादौ सिक्वेलवाससी" 3 / 330 // इत्यभिधानचिन्तामणिः / सितांशुवर्ण:-सितः शुक्लोऽशु: किरणो यस्य स शितांशुश्चन्द्रः, तद्वद्वर्णः सारूप्यं येषान्ते सितांशुवर्णास्तैस्तथा, चन्द्रवद्धवलैरित्यर्थः / तद्गुणैः-तस्य महीपतेः श्रीविश्वसेनस्य गुणाः शौर्यवीय्यौदार्यगाम्भीर्यादयस्तद्गुणास्तैस्तथा / यशोऽम्बरम यशः श्लोकः कीर्तिरिति यावत् एव .अम्बरं वस्त्रं यशोऽम्बरम् तथा / क्यति स्म-उवाय निरमासीदिति यावत् / तदीयजाड्यक्षतये-तस्य अवासस इदं तदीयं तच्च तज्जाड्यं शैत्यं तदीयजाड्यम् तस्य क्षतिविनाशस्तदीयजाड्यक्षतिस्तस्यै तथा वस्त्राभाववतो जनस्य शैत्यापनोदनार्थमिति यावत् / विधिः-विधाता, ब्रह्मेति यावत् / विधिना-विधिपूर्वकम् / महोशितु:-महीं पृथिवीमीशिता शासिता महीशिता महीक्षित, तस्य महोशितुः / प्रतापरहिम्प्रतापः-प्रभावस्तेज इति यावत् एव बहिरग्निः प्रतापवह्निस्तन्तथा / “यत्कोश-दण्डजं तेजः स प्रभाव. प्रतापवत्" 3 / 404 // इत्यभिधानचिन्तामणिः / व्यघात-अकार्षीत् / / 4 / / नृपेण देशे धृतसूत्रसञ्चय-महासिवेम्नः सह कृत्वरी बहुम् / स्वदोस्तुरीयं चपला शितांशुक-प्रभाविशष जनयां बभूव तम् // 17 // अन्वयः-देशे, नृपेण, धृतसूत्रसञ्चयः, महासिवेम्नः, सहकृत्वरी, चपला, इयम् , स्वदोस्तुरी, बहुम् , तम् , सितांशुकप्रभाविशेषम् , जनयांबभूव // 47 //