________________ 26.] ...... श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेईकारादेशश्च / पूर्वोक्तविशेषणं पदमिति शेषः / जगत्त्रयम्-त्रयोऽवयवा अस्येति त्रयम् जगतां त्रयं जगत्रयं त्रिभुवनमित्यर्थः, अलम्भि-प्रापि, डब्धमिति यावत् // 40 // क्व कौशिकस्य प्रभुताऽसुराद्भिया निमेषभाजोऽक्षिसहस्रसङ्गमे / अतोऽत्र राजाऽनुपमस्त्रिविष्टपे रराज नीराजनयासराजघः // 41 // अन्वयः-अक्षिसहस्रसङ्गमे, अनिमेषभाजः, कौशिकस्य, असुराद्भिया, प्रमुता, क्व, अता, त्रिविष्टपे, अनुपमः, नीराजनयासराजघः, राजा, अत्र, रराज // 41 // ___ वृत्तिः-असुराद्भिया-दैत्याद्भयेन / अक्षिसहस्रसङ्गमे-अक्ष्णां नेत्राणां सहस्रम् अनिसहस्रम्, तस्य सङ्गमः सङ्गः अक्षिसहस्रसङ्गमस्तस्मिंस्तथा / अनिमेषभाज:-निमेषो निमीलनम्, न निमेषोऽनिमेषस्तं भजते समाश्रयतीति अनिमेषभाक् तस्य तथा / कौशिकस्य-कुशिकस्य गोत्रापत्यं पुमान् कौशिक इन्द्रस्तस्य तथा / प्रभुता-सामर्थ्यम् / क्व-कुत्र / कुत्रापि नास्तीत्यर्थः / अत:-अस्मात् कारणाव / त्रिविष्टपैस्वर्गे त्रयाणां विष्टपानां लोकानां समाहारनिविष्ठपम् तस्मिंस्तथेति व्युत्पत्त्या त्रैलोक्ये वा / "स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः / सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्" इत्यमरः / “स्यालोको विष्टपं विश्वं भुवनं जगती जगत्" 6 / 1 / / इत्यभिधानचिन्तामणिः // अनुपमः-न उपमातुलना, सादृश्यमिति यावद्यस्य सोऽनुपमः / नीराजनयासराजधः-राजानं हतवानिति राजघः, नितरां राजनये आस्ते इति निराजनयासः, स चासौ राजघो नीराजनयासराजघः / यद्वा-निर्गतो राजनयोऽस्मादिति नीराजनयस्तमस्यतिक्षिपतीति नीराजनयासः, स चासौ राजघस्तथा / राजा-नृपतिः, श्रीविश्वसेनः / अत्र-अस्मिन् मर्त्यलोके / रराज-विरराज, दिदीपे, शुशुभे इति यावत् // 41 // निवारितास्तेन महीतलेऽखिलेऽप्यनीतयो नीतिकरण भूभुजां / कुतो भवेत्तद्विषयेऽप्यदृष्टवद् भयं नु दृष्टं परिशिष्टमप्यतः // 42 // अन्वयः-नीतिकरण, तेन, भूभुजा, अखिलेऽपि, महीतले, अनीतयः, निवारिताः, नु, अतः, परिशिष्टमपि, अदृष्टवत् , दृष्टम् , भयम् , तद्विषये, कुतः, भवेत् // 42 // वृत्तिः–नीतिकरण-करोति विदधातीति करः, नीतेायस्य करो नीतिकरस्तेन तथा, न्यायशालिनेत्यर्थः / तेन-प्रसिद्धेन / भूभुजा-मुवं पृथिवीं भुनक्तीति भूमुक् तेन तथा, राज्ञा श्रीविश्वसेनेत्यर्थः / अखिलेऽपि-सम्पूर्णेऽपि / महोतले-मूमण्डले / अनीतयः-न्याय्यबहिर्मूतपापाचरणादयः / निवारिता:अपसारिताः, दूरीकृता इति यावत् / नु-वितर्के / अतः-अस्माद्धेतोः / परिशिष्टमपि-अवशिष्टं खलु /