________________ 24 ] श्रीजननैषधीयमहाकाव्ये श्वीशान्तिनाथचरित्रे द्विषन्मनः काननदाहसाहसी, प्रतापवह्निः प्रससार भूपतेः / तदीर्घ्ययेवात्र विशिष्य भूतले, वितेनुरङ्गारमिवाऽयशः परे // 37 // अन्वयः-भूपते, द्विषन्मनःकाननदाहसाहसी, प्रतापवह्निः, प्रससार, परे, तदीय॑या, इव, विशिष्य, अत्र, भूतले, अंगारम् , इव, अयशः, वितेनुः // 37 // वृत्तिः-भूपतेः-मुवः पृथिव्याः पतिः स्वामी भूपतिः श्रीविश्वसेनस्तस्य तथा / द्विषन्मनाकाननदाहसाहसी-द्विषतां शत्रुगां मनश्चित्तमन्तःकरणमिति यावत् द्विषन्मनः, "अन्तःकरणं मानसं मनः / होतो हृदयं स्वान्तं चित्तं गूढपथोच्चले" 65 // इत्यभिधानचिन्तामणिः / द्विषन्मन एव काननं वनम् द्विषन्मनःकाननम् , तस्य दाहः-प्लोषः, भस्मीकरणमिति यावत् द्विषन्मनःकानन दाहस्तत्र साहसी-आग्रहबान् इति द्विषन्मन.काननदाहसाहसी / प्रतापवहिः-प्रतापः प्रभावः, तेज इति यावत् एव बहिहुताशनः प्रतापवह्निः / प्रससार-प्रासरत् प्रसृतवानिति यावत् / त्रिभुवने इति शेषः / परे-शत्रवः, प्रतिपक्षमता राजान इत्यर्थः / तदीय॑या-तस्य तादृशप्रतापवह्निविस्तारस्य ईर्ष्या अक्षान्तिः असहिष्णुता, तदीया, तया तथा / इव-यथा / विशिष्य-विशेषतः / अत्र-अस्मिन् / भूतले-पृथिव्याम्, भूमण्डले इति यावत / नगारम्-अप्रशान्तज्वालदहनावलीढकाष्ठांशम्, दग्धप्रायकाष्ठमिति यावत् ( कोयला-हिन्दीप्रसिद्धः ) ( कोलसा-गुर्जरप्रसिद्धः ) तुल्यम् / अयश:-अकीर्तिम् / वितेनु:-विस्तारयामासुः // 37 // अनल्पदग्धारिपुरानलोज्ज्वलैः, प्रतापरोचिनिचयैर्भुवः पतिः / रराज राजन्यसमाजमध्यगः, स विश्वसेनः स्वरसेन तत्पुरे // 38 // अन्वयः-भुवः, पतिः, सा, विश्वसेनः, अनल्पदग्धारिपुरानलोज्ज्वलः, प्रतापरोचिनिचयः, स्वरसेन, तत्पुरे, रराज // 38 // वृत्तिः-मुवा-पृथिव्याः / पति:-स्वामी / सः-प्रसिद्धः / विश्वसेन:-तदाख्यः शान्तिनाथपिता / अनन्पदग्धारिपुरानलोज्ज्वलैः-अनल्पानि बहूनि दग्धानि ज्वलितानि भस्मीकृतानीति यावत् अरिपुराणि शत्रुनगराणि येस्तेऽनल्पदग्धारिपुराः, ते च तेऽनला बहयोऽनल्पदग्धारिपुरानलास्तै रुज्ज्वला दीप्यमाना अनल्पदग्धारिपुरानलोज्ज्वलास्तैस्तथा / प्रतापरोचिनिचयैः-प्रतापस्य तेजसो रोचियॊतिः प्रतापरोचिस्तस्य निषयाः समूहाः प्रतापरोचिनिचयास्तैस्तथा / 'रोचिरुनरुचिशोचिरंशुगो ज्योतिरचिरूपधृत्यभीशवः' 2 // 13 // इत्यभिधानचिन्तामणिः / स्वरसेन-स्वस्य निजस्य रसो रागः परसस्तेन तथा "रसो गन्धरसे जले / शृङ्गारादौ विषे वीर्ये, तिक्तादौ द्रवरागयोः” इति मेदिनी / तत्पुर-तनगरे, हस्तिनापुरे इति यावत् / राज-विरराज, शुशुभे इति यावत् // 38 //