________________ -आचार्यविजयामतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 23 अहर्निशं दातुरनन्तरोदक-प्रगल्भवृष्टिप्ययितस्य सङ्गरे / नृणां मनस्तापविभावसोरभूत्, स धूमभूमा कृपणानने स्थिरः // 35 // अन्वयः-सङ्गरे, अहर्निशम् , दातुः, अनन्तरोदकप्रगल्भवृष्टिव्ययितस्य, नृणाम् , मनस्तापविभावसोः, सः, धूमभूमा, कृपणानने, स्थिरः, अभूत् // 35 // वृत्तिः-सङगरे-अङ्गीकृते प्रतिश्रते इति यावत् / “सङ्गरोऽङ्गीकृते युद्धे क्रियाकारे विषापदाः / सङ्गरं तु फले शम्याः" इत्यनेकार्थः / दातु:-प्रदातुः, दानशीलस्य जनस्येति यावत् / अनन्तरोदकप्रगन्यवृष्टिव्ययितस्य-प्रगल्भा प्रौढाऽसझेति वृष्टिवर्षणं प्रगल्भवृष्टिः, उदकस्य उत्सर्गजलस्य प्रगल्भवृष्टिरुदकप्रगल्भवृष्टिः, अनन्तराऽव्यवहिताऽविच्छिन्नेति यावत् चासौ उदकप्रगल्भवृष्टिरनन्तरोदकप्रगल्भवृष्टिः तया व्ययितो निर्वापितोऽनन्तरोदकप्रगल्भवृष्टिव्ययितस्तस्य तथा / नृणाम्-दीनजनानाम् / मनस्तापविभावसो:मनसोऽन्तःकरणस्य ताप आर्थिकक्लेशजनितसन्तापो मनस्तापः, स विभावसुरग्निरिवेति मनस्तापविभावसुस्तस्य तथा / सः-प्रसिद्धः / धूमभूमा-अतिशयेन बहुभूमा, बहुशब्दादिमनि प्रत्यये सति "भूलक चेवर्णस्य” 7:4 / 41 // इत्यनेन "बहुशब्दस्य भूः" इत्यादेशः, इमनइकारस्य लुक् च / भूमा-भूयान् चासो "धूमः, धूमभूमा" राजदन्तादित्वात पूर्वनिपाताईस्य भूमशब्दस्य परनिपातः / वस्तुतस्तु “स भूमधूमः कृपणानने स्थिरः" इत्येव पाठः समादरणीयः, राजदन्तादिगणपाठकल्पनलाघवाद भूमा चासो धूमो भूमधूमः इति / कृपणानने-कृपणानाम् कदाणाम् दानशक्तिविरहितानामिति यावत्, आननम्-मुखम् कृपणाननम् तस्मिंस्तथा / स्थिर:-दृढमवस्थितः / अमृत-अभवत् // 35 // अदःपुरः मापबहुप्रतापजै-दिवाकरः प्रादुरभूत् कराकरैः / निजस्य तेजः शिखिनः परःशताः परे रुचिभ्रंशमिहाभिलेभिरे // 36 // अन्वयः- अदःपुरः, मापबहुप्रतापजैः, कराकरः, दिवाकरः, प्रादुरभूत् , इह, परःशताः, परे, शिखिनः, निजस्य, रुचिभ्रंशम् , तेजः, अभिलेभिरे // 36 // . ' वृत्तिः-अदापुर:-असौ चासौ पूनगरी अदःपूस्तस्या अदःपुरः / मापबहुप्रतापजै:-क्ष्मां पृथिवीं पाति रक्षतीति क्षमापो राजा तस्य बहुप्रतापः मापबहुप्रतापस्तस्माज्जाताः क्षमापबहुप्रतापजास्तैस्तथा / कराकरैः-कराणां किरणानामाकराः खनयः कराकरास्तैस्तथा / दिवाकरः-सूर्य्यः / प्रादुरभूत-प्रादुर्भूतो जातः / इह-लोकेऽस्मिन् / परःशता:-शतात्परेऽनन्ताः / परे-अन्ये / शिखिन:-अग्नयः / निजस्यआत्मनः / रुचिभ्रंशम्-भ्रश्यत इति भ्रंशः, रुच्या कात्या भ्रंशो रुचिभ्रंशस्तम् तथा / यद्वा रुचेभ्रंशो यस्य तव तथा / तेज:-प्रतापम् / आलेमिरे-प्राप्तवन्तः // 36 //