________________ 22 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेसमुद्रे तदभावाद् प्रहणसमये चन्द्रस्यापि अशौचकवलितत्वेन तच्छुद्धिसाधनीमूतं जलं सुधाम्बुधौ पतितं सत्चदुपयोगाय जातमिति // 3 // यशः स्वरूपाददसीयनागर-प्रदानजन्यं कृतविश्रमं दिवि / जगभ्रमात्तत्क्रमचारजं रजो, दधाति पङ्कीभवदतां विधौ // 33 // अन्वयः-अदसीयनागरप्रदानजन्यम् , यशः, स्वरूपात् , दिवि, कृतविश्रमम् , जगभ्रमात् , तत्क्रमचारजम् , रजः, पङ्कीभवत् , विधी, अङ्कताम् दधाति // 33 // __ वृत्तिः-अदसीयनागरप्रदानजन्यम्-एतदीयनागरिकलोकप्रदानसमुद्मृतम् / यश:-कीर्तिः / स्वरूपात्-स्वभावात् / दिवि-स्वर्गे, आकाशे वा / कृतविश्रमम्-विहितविरामम् / जगद्ममात्-मुवनपरिभ्रमणात् / तत्क्रमचारजम्-तदीयपादसञ्चारजनितम् / रजः-धूलिः / पकीभवत-कर्दमीभवत् / विधौ-चन्द्रे / अङ्कताम्-कलङ्कताम् / दधाति-धारयति / “कलकाको लाञ्छनं च चिन्हं लक्ष्म च लक्षणम्" इत्यमरः / अतिशयोक्तिरलङ्कारः // 33 // स्फुरद्धनुनिस्वनतद्घनाशुग-प्रवर्षणेभूमिपतेर्यशस्तरुः सपल्लवश्चित्रमिदं न किन्तु तद्,-रिपुस्तदा-पल्लवलक्षवानभूत् // 34 // __ अन्वयः-स्फुरद्धनुर्निस्वनतद्धनाशुगप्रवर्षणैः, भूमिपतेः, यशस्तरुः, सपल्लवः, इदम् , न चित्रम् , किन्तु, तदा, तद्रिपुः, आपल्लवलक्षवान् , अभूत् // 34 // वृत्तिः-स्फुरद्धनुनिस्वनतद्धनाशुभप्रवर्षणैः-स्फुरन् प्रकाशमानो धनुनिस्वनः कोदण्डशब्दो यस्य एवंविधश्चासौ स विश्वसेनश्च स्फुरद्धनुनिस्वनसः / घना-निविडाश्च ते आशु-शीघ्र गच्छन्तीत्याशुगा बाणाश्च घनाशुगाः, स्फुरद्धनुनिस्वनतस्य-श्रीविश्वसेनस्य घनाशुगाः स्फुरद्धनुनिस्वनतद्घनाशुगास्तेषां प्रवर्षणानि स्फुरद्धनुर्निस्वनतद्धनाशुगप्रवर्षणानि, तैस्तथा / भूमिपतेः-भूम्याः पृथिव्याः पतिरोश्वरः, भूमिपतिस्तस्य तथा राज्ञो विश्वसेनस्येत्यर्थः / यशस्त:-यशस: कोर्तेस्तरुव॒क्षो यशस्तरुः, कीर्तिपादप इति यावत् / सपल्लव:-पल्लवैः किसलयः, नूतनदलैरिति यावत् “पत्रं पलाशं 'छदनं बहं पर्ण छदं दलम् / नवे तस्मिन् किसलयं किसलं पल्लवः" 4 / 179 / इत्यभिधानचिन्तामणिः / इदम्-तद्धनाशुगप्रवर्षणैर्यशस्तरोः पल्लवसाहित्यम् / चित्रम्-आश्चर्यकरम् / न-नहि। किन्तु-परन्तु। तदा-श्रीविश्वसेनघनाशुगप्रवर्षणकाले / तद्रिपुः-तस्य श्रीविश्वसेनस्य रिपुः शत्रुः तद्रिपुः / आपल्लवलक्षवान-आपदां विपत्तीनां लबालेशा आपल्लवास्तेषां लक्षः आपल्लवलक्षः, योऽस्त्यस्येति आपलपलक्षवान् “तदस्यास्स्यस्मिन्निति मतुः / / 2 / 1" इत्यनेन मतुः प्रत्ययः / अभूत-अभवत् // 34 // .