________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः वृनि:-अमुष्याः अस्याः / पुर:-नगरस्य / नृपतेः-नृणां पतिर्नृपतिस्तस्य तथा राज्ञः श्रीविश्वसेनस्ये त्यर्थः / अपि-सम्भावनायामव्ययम् / “गर्दासमुच्चयप्रश्नशङ्कासम्भावनास्वपी"त्यमरः / प्रयाणजम्प्रयाणं दिग्विजयादिक्रमेण प्रस्थानम् तस्माज्जातं प्रयाणजम् प्रयाणजन्यमिति यावत् / स्फुरत्प्रतापानलधूममञ्जिम-स्फुरन्-प्रकाशमानश्वासौ प्रतापः प्रभावस्तेज इति यावत् स्फुरत्प्रतापः, स एवासात्वादनलोऽग्निः स्फुरत्प्रतापानलः, तस्य धूमो वायुवाहः स्फुरत्प्रतापानलधूमस्तस्य मञ्जिमेव सौन्दर्यमिव मञ्जिमा यस्य तव 'फुर तातापान धूमम जिम | “धूमः स्याद्वायुवाहोऽग्निवाहो दहनवे तनम् / अम्भःसूः करमालश्चस्तरी मूतवाह्यपि 4 / 169 // " इत्यभिधानचिन्तामणि: / चलद्वाजिखुराहतम्-चलन्तो धावन्तश्च ते व ननोऽश्वाः चलद्वाजिनस्तेषां खुराः शफाश्चलद्वाजिखुराः, तेर्हतम् अभिहतम् ताडिमिति यावत्तथा / रजः-धूलिः / द्विषाम्-शत्रूणां / पुर:-अग्रे / “पुरः पुरस्ताव पुरतोऽग्रतः 6 / 165 // " इत्यभिधानचिन्तामणिः / तदाख्यातुम्-श्रीविश्वसेनप्रयाणवृत्तान्तं काय तुमिव / मुखे-आनने / स्थितम्-अतिष्ठत् / यद्वा-तादृशं रजः। तत्-प्रयाणवृत्तान्तम् / आख्यातुमिव-कायतुमिव / द्विषाम्-शत्रणाम् / पुर:-नगरस्य / मुखे-अप्रभागे। स्थितम्-अतिष्ठत, इत्येवमन्वयो विधातव्यः // 31 // पुरेऽर्थिभिश्चार्थिजनाय दित्सुभिरदापि नीरं क्रमवृद्धवीचिभिः / तदेव गत्वा पतितं सुधाम्बुधौ, विधोघेहानन्तरशौचकर्मणे // 32 // अन्वयः-पुरे, क्रमवृद्धवीचिभिः, दित्सुभिः, अर्थिभिः च, अर्थिजनाय, नीरम्, अदापि, तदेव, मत्वा, सुधाम्बधौ, पतितम् , विधोः, ग्रहानन्तरशौचकर्मणे (उपयुज्यते) ... वृत्तिः-पुरे-हस्तिनापुरनामके नगरे / क्रमवृद्धवीचिभि:-क्रमेण दानोत्तरोत्तरक्रमेण वृद्धा उपचयमापन्ना वीचिठत्सर्गजलतरङ्गो येषान्ते क्रमवृद्धवीचयस्तैस्तथा। “तरङ्गे भगवीच्यू स्कलिकाः 4 / 131 / " इत्यभिधानचिन्तामणिः / दित्सुमिः-दित्सन्ति दातुमिच्छन्ति तच्छीला दित्सवः “सन्-भिक्षाऽऽशंसेरुः 5 / 2 / 33 / " इति सूत्रेण उ: प्रत्ययः, तैस्तथा, दातुकामैरिति यावत् / बर्थिमि:-अर्थों धनमस्त्येषामित्यथिनस्तैस्तथा "अर्थो विषयार्थनयोधनकारणवस्तषु / अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी। च-पादपूरणे। अर्थिजनाय-अर्थयति याचते तच्छोलमस्त्यस्येति अर्थी याचकः, स चासौ जनो लोकोऽर्थिजनस्तस्मै तथा / नीरम्-जलम् / अदापि-दाप्यते स्म / राज्ञा-विश्वसेनेनेति शेषः / तदेव-उत्सर्गार्थदीयमानं जरमेव / गत्वा-प्रगत्य / सुधाम्बुधौ-अमृतसिन्धौ। पतितम्-पतनक्रियाश्रयीभूतम् / विधो:चन्द्रस्य / ग्रहानन्तरशौचकर्मणे-शौचाय पवित्रतायै शुद्धयर्थमिति यावत् कर्म क्रिया शौचकर्म ग्रहो प्रहणम्, राहूपराग इति यावद, तस्य अनन्तरम् तदुत्तरकालः प्रहानन्तरम् तस्मिन शौचकर्म प्रहानन्तरशौचकर्म तस्मै तथा / उपयुज्यते-उपयुक्तं भवति / केवलं-जलस्यैव शौचकर्मसम्पादनशीलत्वेन / सुधाम्पुधौ-सुधा