________________ 20 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे इति यावत् / ( अत एव ) कृश:-कृश्यति स्मेति कृशः दुर्बल इत्यर्थः / “अनुपसर्गाः झीव" 4 / 2 / 80 // इत्यनेन क्ते निपात्यते / अधर्मः-धर्मविरुद्धः / अपि-समुच्चयेऽव्ययम् / पित्सया-पत्तुं संप्राप्तुमिच्छा पित्सा तया तथा / उदयस्येति शेषः / स्वत एव-आत्मनैव / फलेन-प्रयोजनेन लाभेन वा / हीनाम्रहिताम् / निष्फलामिति यावत् / तपस्विताम्-तपस्याम् तपस्विताशब्दस्य तपः पर्य्यवसितार्थत्वेन तत्पर्य्यायतया तपस्याशब्दस्योपन्यासे न क्षतिः, प्रकृतिजन्यबोधे प्रकारीमूतस्यैव भावप्रत्ययार्थत्वात् / दधौ-धृतवान् (इति) मन्ये-अवगच्छामि, जानामीति यावत् , वाक्यार्थः कर्म // 29 // यदस्य यात्रासु बलोद्धतं रजः. प्रजाव्रजे ध्यान्तभिये भविष्यति / इतीव वेधा विदधे मणीमया-जनालयांस्तत्र नृपस्य पश्यतः // 30 // ... अन्वयः-यत् , अस्य यात्रास, बलोद्धतम् , रजः, प्रजाव्रजे, ध्वान्तभिये, भविष्यति, इतीव, वेधाः, पश्यतः, नृपस्य, तत्र, मणीमयान् , जनालयान् , विदधे // 30 // वृत्तिः-यत्-यस्मात् / अस्य- लोकस्य, योगिगणस्य, राहो वा / यात्राम-दिग्विजयादिकमुहिश्य प्रयाणेषु / बलोद्धतम्-बलैः सैन्यैरुद्धतं प्रक्षिप्तम् बलोद्धतम् / रजः-धूलिः / "पलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः" इति मेदिनी / “अथ रजसि स्यु लीपांशुरेणवः / 4 // 36 // इत्यभिधानचिन्तामणिः / प्रजाबजे- लोकसमुदाये, जनसमूहे इति यावत् / “लोको जनः प्रजा" // 165 // इत्यभिधानचिन्तामणिः / "समूहश्चयः / सन्दोहः समुदायराशिविसरलाताः कलापो ब्रजः" 6 / 47 / / इति च / ध्वान्तभिये-ध्वान्तं तमोऽन्धकार इति यावत् तस्माद् भीर्भयम् ध्वान्तभीस्तस्य तथा, अन्धकाराधिक्यप्रयुक्तभयसम्पादकमिति यावत् / भविष्यति-भविता / इतीव-इत्येवं मनसि कृत्वेत्यर्थः / वेधा:-विधाता / पश्यतः-अवलोकयतः / नृपस्य-राज्ञः / तत्र हस्तिनापुरे / मणीमयान-मणीनां रत्नानां विकाराः मणीमयास्तांस्तथा / बनालयान-जनानां लोकानामालया गृहा जनालयास्तांस्तथा। विदधे-कृतवान् / उप्रेक्षालङ्कारः / “भवेस्त्रम्भावनोलेक्षा प्रकृतस्य परात्मना" इति साहित्यदर्पणः // 30 // पुरोऽप्यमुष्या नृपतेः प्रयाणज, स्फुरत्प्रतापानलघूममञ्जिम / रजश्चलद्वाजिखुराहत द्विषां, पुरस्तदाख्यातुमिव स्थित मुखे // 31 // अन्वयः-अमुष्याः, पुरः, नृपतेः, अपि, प्रयाणजम् , स्फुरत्मतापानलघूममञ्जिम, चलद्वाजिखुराहतम् , रजः, द्विषाम् , पुर, तदाख्यातुम् , इव, मुखे, स्थितम् // 31 //