________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 19 पिनाकियन्नाकिविनायकार्चितस्तपोवने तप्यति योगिनां गणः। भुवं यदेकाहिकनिष्ठया स्पृश-नुपादिशन्नूर्वदिशः प्रवेशनम् // 28 // अन्वयः-योगिनाम् , गणः, यत् , एकांशिकनिष्ठया, भुवम् , स्पृशन् , ऊर्ध्वदिशः, प्रवेशनम् , उपादिशत् ( अतः ) पिनाकिवत् नाकिविनायकार्चितः, ( सन् ) तपोवने, तप्यति // 28 // वृत्तिः-योगिनाम्-योगः संयमादिसमन्वितश्चित्तवृत्तिनिरोधोऽस्त्येषामिति योगिनस्तेषान्तथा / यतीनामित्यर्थः / गणः-समूहः / यत्-यस्माद्धेतोः / “हेतौ यत्तद्यतस्ततः" 6 / 173 / / इत्यभिधानचिन्तामणिः / एकांहिकनिष्ठया-एकोऽह्रिश्चरणो यस्या सा एकांहिका, सा चासौ निष्ठा स्थितिः, एकाहिकनिष्ठा, तया तथा एकचरणकनिष्ठिकयेत्यर्थः / भुवम्-पृथिवीम् / स्पृशन्-अवलम्बमानः / ऊर्ध्व दिशः-मुक्तिमार्गस्य / प्रवेशनम्-सम्प्राप्तिलक्षणप्रवेशम् / उपादिशन्-उपदिदेश, उपदिष्टवानित्यर्थः लोकेभ्य इति शेषः / ( अत:अस्मात् कारणाव ) पिनाकिवत-पिनष्टि शत्रून् इति पिनाकम्-आजगवम् , तदस्त्यायेति पिनाकी शङ्करस्ते न तुल्यः पिनाकिवत / "पिनाकं स्यादाजगवमजकावं च तद्धनुः' 2 / 115 / / इत्यभिधानचिन्तामणिः / नाकिविनायकार्चित:-नाकः स्वर्गोऽस्ति निवासस्थानत्वेनैषामिति नाकिनो देवाः, वि-विशिष्टो नायको नेताऽग्रणीरिति यावत् विनायकः, नाकिनां विनायको नाकिविनायक इन्द्रस्तेन अर्चितः पूजितः, नाकिवि नायकाचितः इन्द्रसंपूजितः सन्निति यावत् / तपोवने-तपःप्रधानं वनं काननम् तपोवनम् तस्मिंस्तपोवने / तप्पतितपश्चर्यामादधाति, यद्वा पिनाकिवव , नाकिविनायकार्चितः, योगिनां गगः, यत्, एकांतिकनिष्ठया, भुवम्, स्पृशन्. तपोवने. तप्यति ( अतः ) ( लोकेभ्यः ) / ऊर्ध्व दिशः-पवेशनम् , उपादिशदित्येवमन्वयः करणीयः / शब्दार्थस्तु पूर्वपदेवेति पुनर्नोक्तः // 28 // तदीर्घ्ययेवोदयमत्र धार्मिकं, विमृश्य मन्ये वहुमन्युना ज्वलन् / फलेन हीनां स्वत एव पित्सया, दधावधर्मोऽपि कृशस्तपस्विताम् // 29 // अन्वयः -अत्र, धार्मिकम् ; उदयम् , विमृश्य, तदीया, इव, वहुम युना, जब छन् , कृशः, अधर्मः, अपि, पित्सया, स्वत एव, फलेन हीनाम् , तपस्विताम् , दधौ ( इति ) मन्ये // 29 // ___वृत्तिः–अत्र-श्रीविश्वसेनस्य नगरे, 'हस्तिनापुरे' योगिजनाधिष्ठितत वने वा / धार्मिकम्धर्मस्य सुकृतस्य अयं धार्मिकस्तन्तथा / धर्म सम्बन्धिनमित्यर्थः / उदयम्-अभ्युदयम्, समुन्नतिमिति यावत् / विमृश्य-विचार्य / तदीय॑या इव-तदक्षान्त्या इव / “अझान्तिरोर्णा" 355 // इत्पभिवानचिन्तामणिः / बहुमन्युना-बहुरधिकश्चासौ मन्युः क्रोधः शो को वा बहुमन्पुरतेन, अतिशय कोवेन, अतिशयशो केन वा . "मन्युः पुमान् क्रुधि / दैन्ये शोके च यज्ञे च" इति मेदिनो / जलन-सन्तप्यत् , सन्तापमापद्यमान