________________ श्रीजननैषधीयमहाकाव्ये थोशान्तिनाथचरित्रे वृत्ति:-चतुर्मि:-चतुःसङ्ख्याकैः / पदैः-चरणैः / सुकृते-धौ / 'धर्मः पुण्यं वृषः श्रेयःसुकृते" 6 // 14 // इत्यभिधानचिन्तामणिः / स्थिरीकृते-अस्थिरः स्थिरः कृत इति स्थिरीकृतस्तस्मिंस्तथा / "कृभ्वस्तिभ्या" मित्यादिना च्चिप्रत्ययः 'ईइच्वाववर्णस्याऽनव्ययस्य" 4 / 3 / 111 / / इत्यनेन च्वौपरे अकारस्येकार आदेशः / ( सति ) राज्ञा श्री विश्वसेनेनेति शेषः / पुरे-नगरे / सविद्रमामे-विद्रुमस्य प्रवालस्य आभाकान्तिविद्रुमाभा, तया सहितम् , सविद्रुमाभम् , तस्मिंस्तथा / “अथ विद्रुमः / रक्ताको रक्तकन्दश्च प्रवालं हेमकन्दलः" 4 / 132 // इत्यभिधानचिन्तामणिः / भवने-सदने / वा-अथवा | वनेऽपि-काननेऽपि / . दिवानिशम्-अहोरात्रम् / देवनत:-देवे-जिने नतः-प्रणत इति देवनतः / समावनः-सभायाः समितेरवनो रक्षकः सभावनः, भावनया सहितो वा सभावनः, अथवा-भावनैः-भवनपतिभिः सहितः सभावनः / विशवोऽपि-वि-विशिष्टा शङ्का अनिष्टोत्प्रेक्षणं यस्य तथा, अपि, “शवाऽनिष्टोत्प्रेक्षणं स्यात्" 2 / 229 // इत्यभिधानचिन्तामणिः / कोऽपि कश्चिदपि जनः / ( कश्चिन्द-कञ्चनापि जनम् ) न-नहिं / तामयेत्क्लामयेत् , सन्तापयेदिति यावत् “तामयादिति पाठे च विशङ्कोऽपि कोपिताम्, न अयाव" इत्येवमन्वयः कार्य्यः / विशङ्क:-विशिष्टशङ्कः, शङ्कापङ्ककलङ्कितोऽपि / कोपिताम्-कोपः-क्रोधोऽस्त्यस्येति कोपी-क्रोधी, तस्य भावः कोपिता, नान्तथा, कोपमित्यर्थः, प्रकृतिजन्यबोधे प्रकारीभूतस्य भावप्रत्ययार्थत्वेन तत्प्रत्ययप्रकृतिः 'कोपि' शब्दजन्ये कोपप्रकारकाऽऽश्रयविशेष्यकबोधे प्रकारीभूतस्य कोपस्य प्रकृते तत्त्वात् / न-नहि. / अयात्-अगच्छत् प्राप्नोदित्यर्थः // 26 // जनेन यूना विषयप्रयोजने, कृतेऽमुना के न तपः प्रपेदिरे ? / प्रपन्नमासन्नवने सभावने-ऽवनेनुपान्नामयता यतात्मना // 27 // अन्वयः-यूना, जनेन, विषयप्रयोजने, कृते, के, तपः, न, प्रपेदिरे, अवनेः, नृपान् नामयता, यतात्मना, अमुना, सभावने, आसन्नवने ( तपः ) प्रपन्नम् // 27 // वृत्तिः-यूना-तरुणेन, सम्प्राप्तयुवत्वेनेति यावत् / जनेन-मानवेन / विषयप्रयोजने-विषयस्य स्त्रीसम्भोगादिविषयवासनायाः प्रयोजनं-पुत्राद्युत्पादनादि विषयप्रयोजनम्, तस्मिंस्तथा / कृते-सम्पादिते / के-के जनाः / तप:-तपस्याम् / न-नहि / प्रपेदिरे-पापुः, प्राप्तवन्त इति यावत् / अवने:-पृथिव्याः / नृपान्-राज्ञः / नामयता-नम्रीकुर्वता, स्वाधीनीकुर्वतेति यावत् / यतात्मना-यतः संयत आत्मा चेतनो यस्य स यतात्मा तेन तथा / अमुना-अनेन, राजमणिना श्रीविश्वसेनेनेति यावत् / सभावने-भावयन्ति ध्यायन्ति परमात्मानमिति भावना ज्ञानध्यानतत्परास्तैः सहितं सभावनन्तस्मिंस्तथा / आसन्नवने-आसन्नं सन्निकटवर्ति च तद्वनं काननमासन्नवनम् तस्मिंस्तथा / (तपः-तपस्याम् ) प्रपन्नम्-समधिगतम् / / 27),