________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 17 जिनानामहतां जिनेष्वर्हत्सु वा इन्द्रो जिनेन्द्रः, जिनेश्वर इत्यर्थः, तस्य पूजा अष्टप्रकाराऽष्टोत्तरशतप्रकारा वाऽर्चा जिनेन्द्रपूजा, तस्या जननं सम्पादनं जिनेन्द्रपूजाजननं तस्मिंस्तथा / महोत्सवैः-महान्तश्च ते उत्सवा उद्धवा महोत्सवास्तैस्तथा / (च-पुनः ) अतुल्यकुल्याचरणैः–कुले वंशे भवानि कुल्यानि तानि च आचरणानि कुल्याचरणानि, अतुल्यानि अनुपमानि च तानि कुल्याचरणानि अतुल्यकुल्याचरणानि तैस्तथा / अथवा कुल्या नदी, तस्या आचरणानि कुल्याचरणानि, अतुल्यानि च तानि कुल्याचरणानि अतुल्यकु ल्याचरणानि तैः शाषाणां पावित्र्यं सरसत्वश्च नद्याचरणकथनात् / शास्त्राणि-चतुर्दशाष्टादश वा विद्याः / ( एव ) याधिकाम्-द्वावयवावस्येति द्वयम्, तेन अधिका अतिरिक्ता द्वयाधिका तान्तथा / शास्त्रलक्षणां द्वयाधिकां चक्षुरविषयमूतस्याप्यर्थस्य ग्रहणादप्यत्राप्यवहितत्वात्त तोयामित्यर्थः / दृशम्-दृश्यतेऽनेनेति दृक् तान्तथा, नेत्रमित्यर्थः / बभार-धृतवान् धारयामासेति यावद // 24 // त्रिधा प्रभासंगतमस्ति हस्तिना-पुरं पुरन्ध्रीजनविश्वरञ्जनम् / दृशं दधे गोधिकृतामिहावसन, निजत्रिनेत्रावतरत्वबोधिकाम् // 25 // अन्वयः-विधा, प्रभासं गतम्, पुरन्धीजनविश्वरञ्जनम् , हस्तिनापुरम् , अस्ति, इह, आवसन् , निजत्रिनेत्रावातरत्वबोधिकाम् , गोधिकृताम् , दृशम् , दधे // 25 // वृत्तिः–त्रिधा-त्रिभिः, प्रकारैरिति त्रिधा / प्रभासङ्गतम्-प्रभासम्, तन्नामकतीर्थ गतं प्राप्तम् / प्रभया अलकया कुबेरनगऱ्या संगतं मैत्री यस्य तत्, यद्वा-प्रभा-तेजो द्युतिर्वा तया सङ्गतं सहितम् / पुरन्ध्रीजनविश्वरञ्जनम्-पुरन्ध्यः सुचरित्रा एव जनाः पुरन्ध्रोजनाः, विश्वे जगति रञ्जनमामोद पदम् विश्व. रखनम्, तेषां ( पुरन्ध्रीजनानाम् ) विश्वरञ्जनम् , पुरन्ध्रोजनविश्वरञ्जनम् / हस्तिनापुरम्-त दाख्यनगरम् / बस्ति-वर्तते / -अत्र / अस्मिन् हस्तिनापुरे इति यावत् / आवमन-निवसत्-कृताऽऽवासस्थान इति यावत् / निजत्रिनेत्रावतरत्वबोधिकाम्-निजस्य-आत्मनः त्रिनेत्रावतरस्वस्य-त्रिनेत्रस्य शङ्कास्यैवावतार उत्प - चिरित्यर्थस्य बोधिकां ज्ञापिकाम् / गोधिकृताम्-गवि-स्वर्गे अधिकृता-प्रशंसिता परीक्षिता वा गोधिकृता तान्तथा, देवैरिति शेषः, यद्वा गोधौ-भाले कृता गोधिकृता तान्तथा / "स्वर्गेषु पशुबागबनदिक्षेत्रवृणिभूतले” इत्यमरनानार्थः / “भाले गोलिकाली कललाटानि" 3 / 237 / / इत्यभिधानचिन्तामणिः / हशमपश्यति दृश्यतेऽनया वा दृक् तान्तथा लोचनम् / दधे-दधार, धृतवानिति यावत् // 25 / / पदैश्चतुर्भिः सुकृते स्थिरीकृते, पुरे विशङ्कोऽपि न कोऽपि तामयेत् / सविद्रुमाभे भवने वनेऽपि वा, दिवानिशं देवनतः सभावनः // 26 // अन्वयः-चतुर्भिः, पदः, सुकृते, स्थिरीकृते, ( सति ) पुरे, सविद्रुमाभे, भवने, वा, वनेऽपि दिवानिशम्, देवनतः, सभावनः, विशङ्कः, अपि, कोऽपि, कश्चिदपि, न, तामयेत् // 26 //