________________ 16] . ....... , श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे - सर्वस्य-निखिलस्य / जनस्य-लोकस्य. लोकसमुदयस्येति यावत् / पिता-जनकः ! पाति रक्षतीति व्युत्पत्त्या पितृशब्दस्य रक्षकार्थकत्वात उपदेशादिना रक्षकत्वस्य तस्मिन्नपि सस्वाद जनसमुदयपितृत्वस्य तत्राक्षतत्वात् / तचतुगननश्रिया-तस्यां शिक्षायां चतुरं निपुर्ण यदाननं वदनं मुखमिति यावत् तच्चतुराननन्तस्य श्रा: शोभा तया / पितामहः-पितृपिता / यद्वा-चत्वारि आननानि यस्य स चतुराननो ब्रह्मा तस्य श्रोः-प्रजागलकस्वादिना शोभासम्पत्तिस्तया वा। पितामह इति शेषः / शान्तिविभोः-शान्तिनाथप्रभोः। पिता-श्रीविश्वसेननामा भूपालः / याम्-यन्नाम्नोम् / पुरोम्-नगरीम् / प्रशास्ति-अनुशासयति, अधिकरोतीति यावत् // 22 // विवेचने वा वचनेऽञ्चने वा, दिशां स कामप्रसरावरोधिनीम् / प्रवृत्तिमाधाय धिया नयाश्रयां, स्वबोधिशोधिप्रभुतां दधेऽधिपः // 23 // अन्वयः-सः, अधिपः, विवेचने, वा, वचने, वा, दिशाम्, अञ्चने, कामप्रसरावरोधिनीम् , नयाश्रयाम् , प्रवृत्तिम् , आधाय, स्वबोधिशोधिप्रभुताम् , दधे // 23 // वृत्तिः–स:-प्रसिद्धः / अधिपः-प्रधि अधिकं पाति रक्षतीति अधिपः-भूपालः, श्रीविश्वसेन इत्यर्थः / विवेचने-तत्त्वाऽतत्त्वविचारणे / वा--अथवा / वचने-निगदने / वा-अथवा / दिशाम्-प्रा शानाम्, दिशानामिति यावत् / अश्चने-गमने / अधिकरणस्य शेषत्वविवक्षायां षष्ठः दिधिकरण कगमने इत्यर्थः कामप्रसरावरोधिनीम्-कामस्य-स्वेच्छाचारस्य प्रसरः प्राबल्यम् कामप्रसरस्तमवरोधयति निवारयति दूरीकरोतीति कामप्रसरावरोधिनी "अजातेः शोले" 5 / 1 / 154 // इत्यनेन णिन् प्रत्ययः तान्तथा। नयाश्रयाम्नयो नीतिः शास्त्रं वा आश्रय आधारो मूलं वा यस्याः सा नयाश्रया तान्तथा / प्रवृत्तिम्-व्यवसायम् / आधाय-विधाय, समाश्रित्येति यावत् / स्वबोधिशोधिप्रभुताम्-स्वस्य नि जस्य आत्मनो वा चोधिः सम्यक्त्वम्, सज्ञानमिति यावत् तं शोधयति सम्मार्जयति वर्धयतीति यावत् स्वबोधिशोधिनी, सा चासौ प्रभुता विभुता सामर्थ्यमिति यावत् स्वबोधिशोधिप्रभुता. तान्तथा / दधे-धृतवान्, जसाहेति यावत् / / 23 / / प्रतिप्रभाताध्ययनैनवैः स्तवैर्जिनेन्द्रपूजाजनने महोत्सवैः / बभार शास्त्राणि दृशं द्वयाधिका-मतुल्यकुल्याचरणैः पुरीजनः // 24 // अन्वयः- पुरीजनः, प्रतिप्रभाताध्ययनैः, नवैः, स्तवैः, जिनेन्द्रपूजाजनने, महोत्सवैः, (च) अतुल्यकुल्याचरणः शास्त्राणि (एव) द्वयाधिकाम् , दृशम् बभार // 24 // वृत्तिः-प्रतिप्रभाताध्ययनैः-प्रभातं प्रभातं प्रति प्रतिप्रभातम्, बोप्सायामव्ययीभावः, प्रतिप्रभातेऽध्ययनानि प्रतिप्रभाताध्ययनानि तैस्तथा / नवैः-नूतनैः, अपूर्वरित्यर्थः / स्तवैः-स्तोत्रैः / जिनेन्द्रपजाजनने