________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [15 - पृथग्दशाशाः, तासान्ताभ्य आगता वा जनाः पृथग्दशाशाजनास्तेषां रसङ्गमाः पृथग्दशाशाजनरङ्गसङ्गमास्तैस्तथा / षस्थाने दशदिशां गणनात् चतुर्णामाश्रमाणां चतुर्णा वर्णानां गणनाश्च / अष्टादशताम्-अष्टाधिका दश अष्टादश तेषां भावोऽष्टादशता तान्तथा, अधिकदशत्वसङ्ख्याकत्वमित्यर्थः / अगाहत-प्राप, सम्प्राप्तवतीत्यर्थः / / 19-20 // अनेकवस्तुप्रचयैर्नृपस्तुतैः, स्ववास्तवैः प्राज्ञजनस्य संस्तवैः / पुरी सुरीणां रमणीयतां ययौ, नवद्वयद्वीपपृथग्जयश्रियाम् // 21 // अन्वयः-अनेकवस्तुप्रचयः, नृपस्तुतः, पाशजनस्य, स्ववास्तवः, संस्तवैः, पुरी, नवद्वयद्वीपपृथग्जयश्रियाम्, सुरीणाम्, रमणीयताम् , ययौ // 21 // वृत्तिः- अनेकवस्तुप्रचयैः-अनेकानि बहूनि च तानि वस्तूनि पदार्थाः, अनेकवस्तूनि तेषां प्रचया उपचया वृद्धय इति यावत्, अनेकवस्तुप्रचयास्तैस्तथा / नृपस्तुतै:-नृपै राजभिः स्तुताः नृपस्तुतास्तैस्तथा / प्राबननस्य-प्रज्ञ एव प्राज्ञः, प्रज्ञादित्वादण प्रत्ययः, प्राज्ञश्चासौ जनः प्राज्ञजनस्तस्य तथा, विदुषो लोकस्येत्यर्थः / स्ववास्तवैः-पराप्रयुज्यमानैरेव यथाथैः / संस्तवैः-स्तोत्रैः / पुरी-भगवतः शान्तिनाथस्य नगरी। नवद्वयद्वीपपृथग्जयश्रियाम्-नवानां द्वयमष्टादश नवद्वयलच ते द्वीपाश्च नवद्वयद्वीपास्तेषां पृथक्-भिन्ना या जयश्रियः विजयसूचिका श्रियस्तासाम्, यद्वा जयन्तीति जयाः सर्वोत्कर्षेण वर्तमाना या श्रियस्ता जयश्रियस्तासान्तथा / सुरीणाम्-देवाङ्गनानाम् / (च) रमणीयताम्-रामणीयकम्, कमनीयतामिति यावद / ययौ-जगाम, संप्राप्तवतीत्यर्थः / यद्वा-सुरीणामित्येतत्पदम् रमणीयतामिति पदस्य समानाधिकरणतया द्वितीयान्तम् तथा च सु-सम्यक् रीणा-स्रुवन्ती सुरीणा तान्तथा / निझरवतीमित्यर्थः / एवञ्च सुरसां रमणीयतामधिगतवतीति भावः // 21 // दिगीशवृन्दांशविभूतिरीशिता, जनस्य सर्वस्य सुशिक्षया पिता / पितामहस्तचतुराननश्रिया, प्रशास्ति यां शान्तिविभोः पिता पुरीम् // 22 // अन्वयः-दिगीशन्दांशविभूतिः, ईशिता, सुशिक्षया, सर्वस्य, जनस्य, पिता, तच्चतुराननश्रिया, पितामहः, शान्तिविभोः, पिता, याम् , पुरीम् , प्रशास्ति // 22 // ___ वृत्तिः-दिगीशवृन्दांशविभूति:-दिशामाशानामीशा दिगीशा इन्द्रादयोऽष्टौ लोकपालास्तेषां वृन्दानि कदम्बकानि, दिगीशवृन्दानि, तेषु अंशेन लेशेन विमूतिरैश्वर्य यस्य स दिगीशवृन्दांशविभूतिः / ( यतः ) इशिता-मुवनस्य दिशां वा शासिता / एतेन मुवने दिक्षु च तदीयमाधिपत्यं योतितम् / सुशिक्षयासु-सुष्ठु शोभना चासौ शिक्षा उपदेशः सुशिक्षा तया तथा, भवसागरपारकरसमीचीनोपदेशेनेति भावः /