________________ 14 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रइव-तुल्यम्। "त्रयी पुनः / ऋग्यजुःसामवेदाः स्युः” 2 / 163 // इत्यभिधानचिन्तामणिः / अङ्गगुणेनगुणनं गुण आवृत्तिरित्यर्थः, अङ्गानामवयवानाम् गुणोऽङ्गगुणस्तेन तथा। विस्तरम् - विस्तारम् विस्तीर्णतामिति यावत् / नीता-सम्प्राप्ता / त्रयीपक्षे च "अनानां शिक्षादिषट्सख्याकानाम् गुण आवृत्तिरगुणस्तेन तथा। अन्यच्चोभयत्र समानम् / " शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः / षडङ्गानि 2 / 164 / / इत्यभिधानचिन्तामणिः / “शिक्ष्यते वर्णविवेकोऽनयेति शिक्षा” यद्वाचस्पतिः "शिक्षा वर्णविवेचिका" कर्मणां सिद्धरूपः प्रयोगः कल्प्यतेऽवगम्यतेऽनेनेति कल्पः, यद् वाचस्पतिः “सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते / ते कल्पा लक्षणार्थानि सूत्राणोति प्रचक्षते"। व्याक्रियन्तेऽन्वाख्यायन्ते शब्दा अनेनेति व्याकरणम् यदाह-"प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः / पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः / " छाद्यतेऽनेन प्रस्ताराद् भूरितिच्छन्दः। ज्योतिषां प्रहाणां गतिज्ञानहेतुपन्थो ज्योतिः ज्योतिषम् वर्गागमादिभिनिर्वचनं निरुक्तिनिरुक्तम् / अग्यते झायतेऽमीभिरित्यङ्गानि उपकारकाणि / ससंहिता-संहिता लोकानां परस्परं सांगत्यम् तया सहिता ससंहिता, त्रयी पक्षे च चत्वारिंशदध्यायपरिमितो वेदभागः संहिता तया सहिता तथा। अपि-समुच्चयेऽव्ययम् / आहिकवृत्तिसोदया-उदयेन धन-धान्यसाम्राज्यप्राचुर्याद्यभ्युनत्या सहिता सोदया आह्निकमधिकारविशेषः, वृत्तिः-प्रतिदिनमाजीविका, आह्निकञ्च वृत्तिश्चाऽऽह्निकवृत्ती, वृत्तिशब्दस्याऽऽह्निकशब्दापेक्षयाऽल्पस्वरत्वेऽपि तदपेक्षयाऽऽह्निकस्याऽभ्यर्हितत्वेन तस्य पूर्वनिपाते नानौचिती, आहिकवृत्तिभ्यां सोदया आह्निकवृत्तिसोदया। त्रयीपक्षे च अह्नि दिने भवाऽऽह्निका सा चासौ वृत्तिर्वर्तनम् आहिकवृत्तिः सन्ध्यावन्दनादिनित्यकर्म, तया ( आह्निकवृत्तिप्रदर्शकतया ) सोदया-अभ्युदयवती, आह्निकवृत्तिसोदया। स्वशाखाबहुलद्विजाश्रया-बहुला-बहवश्व ते द्विजाः पक्षिणो बहुलद्विजास्तेषां आश्रया-आधारा बहुलद्विजाश्रयाः, स्वशाखा:-वृक्षादिशाखा बहुलद्विजाश्रया यस्यां मा स्वशाखाबहुलद्विजाश्रया, त्रयीपक्षे च बहुला बहवश्व ते द्विजा ब्राह्मणाः गौतमपिप्पलादाऽऽश्वलायनादयो बहुलद्विजास्तेषामाश्रयाः प्रतिपादकत्वेऽऽधारभूताः बहुलद्विजाश्रयाः, स्वशाखाः कठकौथुभादयो बहुलद्विजाश्रया यस्याः सा स्वशाखाबहुलद्विजाश्रया / पुरी-नगरी, राजधानीत्यर्थः // शुभाश्रमैः-शुभाः समीचीनाश्च ते आश्रमाः ब्रह्मचर्यादयश्चत्वारः शुभाश्रमास्तैस्तथा / तथा चाभिधानचिन्तामणि: "ब्रह्मचारी गृही वामप्रस्थो भिक्षुरिति क्रमात् / चत्वार आश्रमाः” इति / 3472 / / वर्णैः-ब्रह्मक्षत्रियविटशूदैश्चतुर्भिः। तथैव-तेन प्रकारेणैव / ककुभ:-दिशः सकाशात् / जनागमैः-आगमनानि आगमाः, जनानां लोकानामागमा जनागमास्तैस्तथा, षड्भिर्जनागमैरित्यर्थः, दिग्गतषट्वस्य जनागमेष्वपि उपचारतः सत्त्वात् / चतुर्दशत्वम्-चस्वारोऽधिका दश चतुर्दश तेषां भावश्चतुर्दशत्वम्, चतुर्दशत्वसङ्ख्याकत्वमित्यर्थः / दधती-धारयन्ती / अपि-सम्भावनायामव्ययम् / गर्दासमुच्चयप्रश्नशङ्कासम्भावनास्वपीत्यमरकोशनानार्थः / ईप्सया-आप्तुं सम्प्राप्तुमिच्छा-ईप्सा तया तथा, अष्टादशत्वस्येति शेषः / पृथग्दशाशाजनरङ्गसङ्गमैः-रमते जनोऽत्रेति रङ्गः “गम्यमि" ( उणादि 92 ) इति गः प्रत्ययः रजत्यस्मिन् जन इति वा, रङ्गे सङ्गमाः सम्मेलनानि रङ्गसङ्गमाः, पृथक्-षड्भ्यः पृथगभूताश्च ता दशाशा:-दश दिशाः