________________ -आचार्य विजयामतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्ग: अमुष्य विद्या रसनाग्रनर्तकी, भविष्यतीत्येव विमर्शपूर्वकम् / विधिः पुरे तानुदपादि सजनान्, प्रबोधशुद्धाम्बुधिजातमजनान् // 18 // अन्वय:-अमुष्य. एव, विद्या, रसनाअनर्तकी, भविष्यति, इति, विमर्शपूर्वकम् , निधिः, प्रबोधशुद्ध ाग्बुधिजातमज नान , तान् , सज्जनान् , पुरे, उदपादि // 18 // वृनिः-अमुष्य-भगवतः शान्तिनाथस्य / एव-खलु / विद्या-वेत्त्यनयेति विद्या शास्त्रादिज्ञानमित्यर्थः / रसनाअनर्तकी-रसनारे-जिह्वाग्रे नर्तकीव नर्तकी स्फुर पेति रसनाअनर्तकी / नान्यस्येत्यर्थः / भविष्यति-भविता / इति-इत्येवम् / विमर्श पूर्वकम्-विचारपुरःसरम् / विधि:-ब्रह्मा, विधातेत्यर्थः / "धाता विधाता विधिवेध सौ ध्रुवः पुराणगोहंसगविश्वरेतसौ / प्रजापतिब्रह्मचतुर्मुखः" | 2|126 / / इत्यभिधान चातामण: / प्रबोधशुद्धाम्बुधिजातमज्जनान-प्रकृष्टो बोधो ज्ञानम् प्रबोधः, सम्यक्त्वज्ञानादिः, शुद्धो विशुद्ध श्वासावम्बुधिः समुद्रः शुद्धाम्बुधिः, प्रबोध एव शुद्धाम्बुधिः प्रबोधशुद्धाम्बुधिः, तत्र जातं वृत्तं मज्जनमवगाहन सम्यगाल डमिति यावत् येषान्ते प्रबोधशद्धाम्बुधिजातमज्जनास्ताँस्तथा / तान-प्रसिद्धान् / सज्जनान्–सन्त.. साधवश्च ते जना मनुष्या: सज्जनास्ताँस्तथा / पुरे-भगवतः शान्तिनाथस्य नगरे / उदपादि-त्पादयामास, ससर्जेति यावत् / अथवा अमुष्य एव विद्या ( तेषाम् ) रसनाप्रनतकी भविष्यति इति विमर्शपूर्वकम् / पुरे प्रबोधशुद्धाम्बुधिजातमज्जनान् तान् सज्जनान् उदपादीत्येवमन्वयः करणीयः, तेषामिति पदस्य प्रबोधशुद्धाम्बुधिजातमज्जनानां सज्जनानामित्यर्थः, ऊह्यः / / 18 / / पुरन्दरस्यापि पुरापुरासखी, त्रयीव नीताऽङ्गगुणेन विस्तरम् / ससंहिताऽप्याह्निकवृत्तिसोदया, पुरी स्वशाखाबहुलद्विताश्रया // 19 // चतुर्दशत्वं दधती शुभाश्रमै-स्तथैव वर्णैः ककुभो जनागमैः / अगाहताष्टादशतामपीप्सया, पृथग्दशाशाजनरङ्गसङ्गमैः // 20 // (युग्मम) अन्वयः-पुरन्दरस्य, अपि, पुरापुरासखी, त्रयी, इव, अङ्गगुणेन, विस्तरम् , नीता, ससंहिता, अपि, आन्हिकवृत्तिसोदया, स्वशाखाबहुलद्विजाश्रया, पुरी, शुभाश्रमः, वर्णैः, तथैव ककुभः जनागमः चतुर्दशत्वम् , दधती, अपि, ईप्सया, पृथग्दशाशाजनरङ्गसङ्गमः, अष्टादशताम् , अगाहत // 19-20 // वृत्तिः-पुरन्दरस्य-पुराणि अरीणां दारयति, त्रिपुरं वेति पुरन्दर इन्द्रः “पुरन्दरभगन्दरौ” 5 / 1 / 114 // इत्यनेन खान्तो निपात्यते / तस्य तथा, इन्द्रस्येत्यर्थः। “इन्द्रो हरिर्दुश्चयवनोऽच्युताप्रजो वजी बिडौजा मघवान् पुरन्दरः" 2085 / / इत्यभिधानचिन्तामणिः / अपि-समुच्चये / “गर्दासमुच्चयप्रश्नशङ्कासम्भावनास्वपि" 3:3 / 247|| इत्यमरकोशः / / पुरापुरासखी-अत्यन्तप्राचीनसहचरी / त्रयी-श्रुतिः, वेद इत्यर्थः /