________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे काचन प्रसिद्धा नगरी, तत्र भवो नैषधः, श्रीऋषमदेव इत्यर्थः / अनैषधस्य नैषधस्य भावः सम्पत्तिनैषधीमावस्तन्तथा “कृभ्वस्तिभ्यां कर्मकर्तृभ्यां" 7 / 2 / 126 // इत्यनेन च्विः प्रत्ययः / लवावकारस्येत्वा / उपत्यसम्प्राप्य / भूमुजाम-मुवं पृथिवीं मुञ्जन्तीति मूमुजो राजानस्तेषान्तथा / व्रजस्य-समुदयस्थ समूहस्येति यावत् “समूहश्चयः कलापो ब्रजः.. ...वृन्दं चक्रकदम्बकं समुदयः" 647 // इत्यभिधानचिन्सामणिः / तद्गुणस्पृशि-तस्य भगवतः शान्तिनाथस्य गुणाः शौर्य्यवीर्योदार्य के वलित्वादयस्तद्गुणाः तान् स्पृशति धारयतीति तद्गुणस्पृक् तस्मिंस्तथा / हृदि-हृदये / “हृच्चेतो हृदयं चित्तम्" 6 / 5 / / इत्यभिधानचिन्तामणिः / / रेमे-अरमत / अनन्तविबोधने-विवोधनं विबोधः, विशिष्टज्ञानमिति यावद, अनन्तमपरिमितञ्च तद् विबोधनमनन्तविबोधनम् तस्मिंस्तथा / अधिक:-सर्वतः, समभ्यधिकः / स्वयम-आत्मना / निजात्मन:स्वस्य / चतुर्दशत्वम्-चतस्रो दशा अवस्था अस्येति चतुर्दशस्तस्य भावश्चतुर्दशत्वम् / कुत:-कस्मात् केन हेतुना वा / कृतवान्-अकार्षीत् / / 16 / / प्रभामयीं स्वीयपुरी तथाऽतनोत्. पुराजिनोऽर्हत्स्वपि पूर्वचक्रभृत् / जनो न यस्यामिति गीरदः पदं, न वेद्मि विद्यासु चतुर्दशस्वयम् // 17 // अन्वयः-पुराजिनः, (यथा) स्वीयपुरीम् , प्रभामयीम् , अतनोत् , अर्हत्सु, पूर्वचक्रभृत् , अयम् , अपि, तथा, ( अतनोत् ) इति गीः, जनः, यस्याम् , न, अदः, पदम् , चतुर्दशसु, विद्यासु न वेनि // 17 // वृत्तिः-पुराजिनः-प्रथमोऽर्हन् , युगादिदेवः श्रीऋषभदेव इत्यर्थः / ( यथा-येन प्रकारेण ) स्वीयपुरीम्-आत्मीयनगरीम् / प्रभामयीम्-कान्तिप्रचुराम् / अतनोत-व्यदधात् / अर्हत्सु-जिनेषु / पूर्वचक्रभृत-प्रथमचक्रवर्ती / भगवतः शान्तिनाथस्य चक्रवर्तिषु पञ्चमत्वात्प्रथमचक्रवर्तित्वकथनं कथं सङ्गच्छत इति तु न वाच्यम्, चक्रवर्तिपञ्चमत्वेऽपि जिनेषु प्रथमचक्रवर्तित्वेऽविरोधात् / अयम्-प्रकृतवर्णनीयः शान्तिनाथ इति यावत् / अपि-खलु / तथा-तेन प्रकारेण / स्वीयपुरी प्रभामयीमतनोदिति / इतिगी:-इत्येवं वक्तेत्यर्थः / जन:-लोकः / यस्याम्-नगर्याम् / न-नहि / अद:-एतत् / पदम्-अधिकारम् चक्रवर्तित्वादिरूपम् विभक्त्यन्तादिरूपमर्हत्सु प्रथमचक्रवर्तित्वादिबोधकं पदं वा / चतुर्दशसु-चतुर्दशत्वसङ्ख्याविशिष्टासु / विद्यासु-वेत्ति जानात्याभिरिति विद्याः ज्ञानानि शास्त्राणि वा तासु / "पुराणन्यायमीमांसा-धर्मशास्त्राझमिश्रिताः / वेदाः स्थानानि विद्यानां धर्मस्य च चतुदश // " -इति याज्ञवल्क्यः // "अगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः / धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश / " -इति मनुः / / न-नहि / वेलि-जाने // 17 //