________________ 31. ] नलस्य पृष्टा निषधागता गुणान् , मिषेण दूतद्विजवन्दिचारणाः / / निपीय तत्कीर्तिकथामथानया, चिराय तस्थे(s-)विमनायमानया // 37 // प्रियं रियां च त्रिजगज्जयित्रियो, लिखाधिलीलागृहभित्ति कावपि / .. इति स्म सा कारुवरेण लेखितं, नलस्य च स्वस्य च सख्यमीक्षते // 38 // मनोरथेन स्वपतीकृतं नलं, निशि क सा न स्वपती स्म पश्यति / अदृष्टमप्यर्थमदृष्टवैभवात् , करोति सुप्तिर्जनदर्शनातिथिम् // 39 // निमीलितादक्षियुगाच्च निद्रया(5-)हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् / अदर्शि सङ्गोप्य कदाप्यवीक्षितो, रहस्यमस्याः स महन्महीपतिः // 40 // अहो अहोभिर्महिमाहिमागमे-ऽप्यभिप्रपेदे प्रति तां स्मरादिताम् / तपर्तुपूर्तावपि मेदसाम्भरा, विभावरीमिबिभरांबभूविरे // 41 // स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः, श्रयन्तमन्तर्घटनागुणश्रियम् / कदाचिदस्या युवधैर्यलोपिनं, नलोऽपि लोकादशृणोद् गुणोत्करम् // 42 // तमेव लब्ध्वाऽवसरं ततः स्मरः, शरीरशोभाजयवातमत्सरः / अमोघशक्त्या निजयेव मूर्तया, तया विनिर्जेतुमियेष नैषधम् // 43 // अकारि तेन श्रवणातिथिर्गुणः, क्षमाभुजा भीमनृपात्मजालयः / ' तदुच्चधैर्यव्ययसंहितेषुणा, स्मरेण च स्वात्मशरासनाश्रयः // 44 // अमुष्य धीरस्य जयाय साहसी, तदा खलु ज्यां विशिखैः सनाथयन् / निमज्जयामास यशांसि संशये, स्मरस्त्रिलोकी विजयार्जितान्यपि // 45 // अनेन भैमी घटयिष्यतस्तथा, विधेरवन्ध्येच्छत्या व्यलासि तत् / अभेदि तत्तादृगनङ्गमार्गणे-र्यदस्य पौष्पैरपि धैर्यकञ्चकम् // 46 // किमन्यदद्यापि यदस्त्रतापितः, पितामहो वारिजमाश्रयत्यहो / स्मरं तनुच्छायतया तदात्मनः, शशाक शङ्के स न लयितुं नलः // 47 // उरोभुवा कुम्भयुगेन जम्भितं, नवोपहारेण वयस्कृतेन किम् / त्रपासरिदुर्गमपि प्रतीर्य सा, नलस्य तन्वी हृदयं विशेषयत् // 48 // अपह्नवानस्य जनाय यनिजा-मधीरतामस्य कृतं मनोभुवा / अबोधि तज्जागरदुःखसाक्षिणी, निशा च शय्या च शशाङ्ककोमला // 49 // .