________________ [ 339 सरोरुहं तस्य दृशैव निर्जितं, जिताः स्मितेनैव विधोरपि श्रियः / कुतः परं भव्यमहो महीयसी, तदाननस्योपमितौ दरिद्रता // 24 // स्ववालमारस्य तदुत्तमाङ्गः, समं चमर्येव तुलाभिलाषिणः / अनागसे शंसति बालचापलं, पुनः पुनः पुच्छविलोलनच्छलात् // 25 // महीभृतस्तस्य च मन्मथश्रिया, निजस्य चित्तस्य च तं प्रतीच्छया / द्विधा नृपे तत्र जगत्रयीभुवां, नतभ्रुवां मन्मथविभ्रमोऽभवत् // 26 // निमीलनभ्रंशजुषा दृशा भृशं, निपीय तं यस्त्रिदशीभिरर्जितः / / अमूस्तमभ्यासभरं विवृण्वते, निमेषनिःस्वैरधुनाऽपि लोचनैः // 27 // अदस्तदाकर्णि फलाट्यजीवितं, दृशोर्द्वयं नस्तदवीक्षि चाफलम् / इति स्म चक्षुःश्रवसां प्रिया नले, स्तुवन्ति निन्दन्ति हृदा तदात्मनः // 28 // विलोकयन्तीभिरजस्रभावना, बलादमु नेत्रनिमीलनेष्वपि / अलम्भि माभिरमुष्य दर्शने, न विघ्नलेशोऽपि निमेष निर्मितः // 29 // न का निशि स्वप्नगतं ददर्श तं, जगाद गोत्रस्खलिते च का न तम् / तदात्मताध्यातधवा रते च का, चकार वा न स्वमनोभवोद्भवम् // 30 // श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं, करे तमालोक्य सुरूपया धृतः / विहाय भैमीमपदर्पया कया, न दर्पणः श्वासमलीमसः कृतः // 31 // यथोह्यमानः खलु भोगभोजिना, प्रसह्य वैरोचनिजस्य पत्तनम् / विदर्भजाया मदनस्तथा मनो(5-)नलावरुद्धं वयसैव वेशितः // 32 // नृपेऽनुरूपे निजरूपसम्पदां, दिदेश तस्मिन् बहुशः श्रुतिं गते / विशिष्य सा भीमनरेन्द्रनन्दना, मनोभवानैकवशंवदं मनः // 33 // उपासनामेत्य पितुः स्म रज्यते, दिने दिने साऽवसरेषु बन्दिनाम् / पठत्सु तेषु प्रतिभूपतीनलं, विनिद्ररोमाऽजनि शृण्वती नलम् // 34 // कथानुषङ्गेषु मिथः सखीमुखा-तणेऽपि तन्व्या नलनामनि अते / द्रुतं विधूयान्यदभूयतानया, मुदा तदाकर्णनसन्जकर्णया // 3 // स्मरात्परासोरनिमेषलोचना-द्विभेमि - तद्भिन्नमुदाहरेति सा / जनेन यूनः स्तुवता तदास्पदे, निदर्शनं नैषधमभ्यषेचयत् // 36 //