________________ 338 ] निवारितास्तेन महीतलेऽखिले, निरीतिभावं गमितेऽतिवृष्टयः / न तत्यजुर्नुनमनन्यविश्रमाः, प्रतीपभूपालमृगीदृशां दृशः // 11 // सितांशुवर्णै यति स्म तद्गुणै-महासिवेम्नः सहकृत्वरी बहुम् / दिगङ्गनाङ्गावरणं रणाङ्गणे, यशःपटं तद्भटचातुरीतुरी // 12 // प्रतीपभूपैरिव किं ततो भिया, विरुद्धधर्मेरपि भेत्तृतोज्झिता / / अमित्रजिन्मित्रजिदोजसा स य - द्विचारक्चरदृगप्यवर्तत // 13 // तदोजसस्तयशसः स्थिताविमौ, वृथेति चित्ते कुरुते यदा यदा / तनोति भानोः परिवेषकेतवात्तदा विधिः कुण्डलनां विधोरपि // 14 // .. अयं दरिद्रो भवितेति वैधसी, लिपि ललाटेऽर्थिजनस्य जाग्रतीम् / मृषा न चक्रेऽल्पितकल्पपादपः, प्रणीय दारिद्रयदरिद्रतां नृपः // 15 // विभज्य मेरुन यदर्थिसात्कृतो, न सिन्धुरुत्सर्गजलव्ययैर्मरुः / अमानि तत्तेन निजायशोयुगं, द्विकालबद्धाश्चिकुराः शिरस्थितम् // 16 // अजस्रमभ्यासमुपेयुषा समं, मुदेव देवः कविना बुधेन च / दधौ पटीयान् समयं नयनयं, दिनेश्वरश्रीरुदयं दिने दिने // 17 // अधोविधानात्कमलप्रवालयोः, शिरःसु दानादखिलक्षमाभुजाम् / पुरेदमूवं भवतीति वेधसा, पदं किमस्याङ्कितमूर्ध्व रेखया // 18 // जगज्जयं तेन च कोशमक्षयं, प्रणीतवाञ्शैशवशेषवानयम् / सखा रतीशस्य ऋतुर्यथा वनं, वपुस्तथाऽऽलिङ्गदथास्य यौवनम् // 19 // अधारि पछेषु तद्घ्रिणा घृणा, क्व तच्छयच्छायलवोऽपि पल्लवे / तदास्यदास्येऽपि गतोऽधिकारितां, न शारदः पार्विकशर्वरीश्वरः // 20 // किमस्य लोम्नां कपटेन कोटिभि-विधिर्न लेखाभिरजीगणद्गुणान् / न रोमकूपौघमिषाज्जगत्कृता, कृताश्च किं दूषणशून्यबिन्दवः // 21 // अमुष्य दोामरिदुर्गलुण्ठने, ध्रुवं गृहीतार्गलदीर्घपीनता / उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुधेषेतिरः प्रसारिता // 22 // स्वकेलिलेशस्मितनिन्दितेन्दुनो, निजांशदृक्तर्जितपद्मसम्पदः / अतद्वयीजित्वरसुन्दरान्तरे, न तन्मुखस्य प्रतिमा चराचरे // 23 //